Book Title: Sutrkritang Sutram Dwitiya Shrutskandh
Author(s): Punyakiritivijay
Publisher: Shripalnagar Jain Shwetambar Murtipujak Derasar Trust
View full book text ________________ श्रीसूत्रकृताङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः२ // 751 // श्रुतस्कन्धः२ षष्ठमध्ययन आईक्रीयम्, सूत्रम् 53-55 (788-790) एकद हस्तितापसवर्णनंच तेऽनार्याः, असत्कर्मानुष्ठायित्वात्, तथा आत्मानं परेषां चाहितास्ते पुरुषाः, बहुवचनमार्षत्वात्, न तादृशाः केवलिनो भवन्ति, तथाहि- एकस्य प्राणिनः संवत्सरेणापिघाते येऽन्ये पिशिताश्रितास्तत्संस्कारे च क्रियमाणे स्थावरजङ्गमा विनाशमुपयान्ति ते तैः प्राणिवधोपदेष्टुभिर्न दृष्टाः, न च तैर्निरवद्योपायो माधुकर्या वृत्त्या यो भवति स दृष्टः, अतस्ते न केवलमकेवलिनो विशिष्टविवेकरहिताश्चेति / तदेवं हस्तितापसान्निराकृत्य भगवदन्तिकंगच्छन्तमार्द्रककुमारं महता कलकलेन लोकेनाभिष्ट्रयमानं तं समुपलभ्य अभिनवगृहीतः सर्वलक्षणसंपूर्णो वनहस्ती समुत्पन्नतथाविधविवेकोऽचिन्तयत्- यथाऽयमार्द्रक- कुमारोऽपाकृताशेषतीर्थिको निष्प्रत्यूहं सर्वज्ञपादपद्मान्तिकं वन्दनाय व्रजति तथाऽहमपि यद्यपगताशेषबन्धनः स्यांतत एनं महापुरुषामाककुमारं प्रतिबुद्धतस्करपञ्चशतोपेतं तथा प्रतिबोधितानेकवादिगणसमन्वितं परमया भक्त्यैतदन्तिकं गत्वा वन्दामीत्येवं यावदसौ हस्ती कृतसंकल्पस्तावस्त्रटनटदिति त्रुटितसमस्तबन्धनः सन्नाईककुमाराभिमुखं प्रसन्नकर्णतालस्तथोर्ध्वप्रसारितदीर्घकरः प्रधावितः, तदनन्तरं कृतहाहारवगर्भकलकलेन पूत्कृतं-यथा धिक् कष्टं हतोऽयमाईककुमारो महर्षिर्महापुरुषः, तदेवं प्रलपन्तो लोका इतश्चेतश्च प्रपलायमानाः(सन्ति), असावपि वनहस्ती समागत्याककुमारसमीपं भक्तिसंभ्रमावनताग्रभागोत्तमाङ्गो निभृत्तकर्णतालस्त्रि:प्रदक्षिणीकृत्य निहितधरणीतलदन्ताग्रभागः स्पृष्टकराग्रतच्चरणयुगल सुप्रणिहितमनाः प्रणिपत्य महर्षि वनाभिमुखं ययाविति / तदेवमार्द्रककुमारतपोऽनुभावाद्बन्धनोन्मुक्तं महागजमुपलभ्य सपौरजनपदः श्रेणिकराजस्तमार्द्रककुमारं महर्षिं तत्तपःप्रभावंचाभिनन्द्याभिवन्द्य च प्रोवाच-भगवन्नाश्चर्यमिदं यदसौवनहस्ती तादृग्विधाच्छस्त्रोच्छेद्याच्छृङ्खलाबन्धनायुष्मतत्तपःप्रभावान्मुक्त इत्येतदतिदुष्करमित्येवमभिहिते आर्द्रककुमारः प्रत्याहभोः श्रेणिकमहाराज! नैतहुष्करं यदसौवनहस्ती बन्धनान्मुक्तः, अपि त्वेतदुष्करं यत्स्नेहपाशमोचनम्, एतच्चप्राङ्नियुक्तिगाथया 0 प्रदत्त० (मु०)। (c) निवृत्त० (मु०)। 0 च्छस्त्राच्छेद्या (मु०)। // 751 //
Loading... Page Navigation 1 ... 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328