Book Title: Sutrkritang Sutram Dwitiya Shrutskandh
Author(s): Punyakiritivijay
Publisher: Shripalnagar Jain Shwetambar Murtipujak Derasar Trust

View full book text
Previous | Next

Page 279
________________ श्रीसूत्रकृताङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः 2 // 745 // कात्पञ्चभ्य पञ्च भूतानि इत्यादि, तथा चैतन्यं पुरुषस्य स्वंरूपमित्येतत्त्वाहतैरप्याश्रितम्, अतः पञ्चविंशतितत्त्वपरिज्ञानादेव श्रुतस्कन्धः२ मोक्षावाप्तिरित्यतोऽस्मत्सिद्धान्त एव श्रेयान्नापर इति ॥४५॥७८०॥न युष्मत्सिद्धान्तोऽतिदूरेण भिद्यत इत्येतदर्शयितुमाह षष्ठमध्ययन आईक्रीयम्, दुहओऽवी त्यादि, योऽयमस्मद्धर्मो भवदीयश्चार्हतः स उभयरूपोऽपि कथञ्चित्समानः, तथाहि- युष्माकमपि जीवास्तित्वे सूत्रम् 47-48 सति पुण्यपापबन्धमोक्षसद्भावोन लोकायतिकानामिव तदभावे प्रवृत्तिः नापिबौद्धानामिव सर्वाधारभूतस्यान्तरात्मन एवा- (782-783) भावः, तथाऽस्माकमपि पञ्च यमाः अहिंसादयो भवतांच त एव पञ्च महाव्रतरूपाः, तथेन्द्रियनोइन्द्रियनियमोऽप्यावयोस्तुल्य एकदण्डिनः हस्तितापएव, तदेवमुभयस्मिन्नपि धर्मे बहुसमाने सम्यगुत्थानोत्थिता यूयं वयं च तस्माद्धर्मे सुष्ठ स्थिताः पूर्वस्मिन् काले वर्तमाने एष्ये च सवर्णनंच यथागृहीतप्रतिज्ञानिर्वोढारो, न पुनरन्ये, यथा व्रतेश्वरयागविधानेन प्रव्रज्यां मुक्तवन्तो मुञ्चन्ति मोक्षन्ति चेति, तथाऽऽचारप्रधान शीलमुक्तं यमनियमलक्षणं न फल्गुकल्ककुहकाजीवनरूपं अथानन्तरं ज्ञानंच मोक्षाङ्गतयाऽभिहितम्, तच्च श्रुतज्ञानं केवलाख्यं च यथास्वमावयोर्दर्शने प्रसिद्धम्, तथा संपर्य्यन्ते- स्वकर्मभिर्धाम्यन्ते प्राणिनो यस्मिन्स संपरायः- संसारस्तस्मिंश्चावयोर्न / विशेषोऽस्ति, तथाहि-यथा भवतां कारणे कार्यं नैकान्तेनासदुत्पद्यते अस्माकमपि तथैव, द्रव्यात्मतया नित्यत्वं भवद्भिरप्याश्रितमेव, तथोत्पादविनाशावपि युष्मदभिप्रेतावाविर्भावतिरोभावाश्रयादस्माकमपीति // 46 // 781 // पुनरपि त एवैकदण्डिनः सांसारिकजीवपदार्थसाम्यापादनाया: अव्वत्तरूवं पुरिसं महंतं, सणातणं अक्खयमव्वयं च / सव्वेसु भूतेसुवि सव्वतो से, चंदो व ताराहिं समत्तरूवे॥सूत्रम् 47 // A ( // 782 // ) 0 भूतानि, तथा (मु०)। 0 इति न तथा (मु०)। युष्मत्सिद्धान्तो (प्र०)10 वक्ष्यमाणानां विशेषणानां सापेक्षमभ्युपगमापेक्षया। // 745 //

Loading...

Page Navigation
1 ... 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328