Book Title: Sutrkritang Sutram Dwitiya Shrutskandh
Author(s): Punyakiritivijay
Publisher: Shripalnagar Jain Shwetambar Murtipujak Derasar Trust
View full book text ________________ श्रीसूत्रकृताङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्ध:२ // 737 // श्रुतस्कन्ध:२ षष्ठमध्ययनं आईक्रीयम्, सूत्रम् 29-36 (764-771) आर्द्र कस्योत्तरः अतो भूताभिशङ्कया जीवोपमर्दोऽत्र भविष्यतीत्येवंबुद्ध्या सर्वमनुष्ठानं जुगुप्समानः- तदुपमईं परिहरन् वदेत् कुर्यादप्यतः कुतोऽस्तीह- अस्मिन्नेवंभूतेऽनुष्ठाने क्रियमाणे प्रोच्यमाने वाऽस्मत्पक्षे युष्मदापादितो दोष इति // 31 // 766 // अधुना पिण्णाके पुरुषबुद्ध्या असंभवमेव दर्शयितुमाह- पुरिसे त्यादि, तस्यां पिण्णाकपिण्ड्यां पुरुषोऽयमित्येवमत्यन्तजडस्यापि विज्ञप्तिरेव नास्ति, तस्माद्य एवं वक्ति सोऽत्यन्तं पुरुषस्तथाभ्युपगमेन हुशब्दस्यैवकारार्थत्वेन अनार्य एवासौ यः पुरुषमेव खलोऽयमिति मत्वा हतेऽपिनास्ति दोष इत्येवं वदेत्, तथाहि- कः संभव पिन्नाकपिण्ड्यां पुरुषबुद्धरित्यतोवागपीयमीहगसत्येति सत्त्वोपघातकत्वात्, ततश्च निःशङ्कप्रहार्यनालोचको निर्विवेकतया बद्ध्यते, तस्मात्पिण्णाककाष्ठादावपि प्रवर्त्तमानेन जीवोपमईभीरूणा साशङ्कन प्रवर्त्तितव्यमिति // 32 // 767 // किञ्चान्यत्- वाचाऽभियोगो वागभियोगस्तेनापि यद्यस्मादावहेत्पा कर्म अतो विवेकी भाषागुणदोषज्ञो न तादृशी भाषामुदाहरेत्- नाभिदध्याद्, यत एवं ततोऽस्थानमेतद्वचनं गुणानाम् , न हि प्रव्रजितो यथावस्थितार्थाभिधायी एतद् उदारं सुष्ठ परिस्थूरं निःसारं निरुपपत्तिकं वचनं ब्रूयात्, तद्यथा- पिण्याकोऽपि पुरुषः पुरुषोऽपि पिण्णाकः, तथाऽलाबुकमेव बालको बालक एव वाऽलाबुकमिति // 33 // 768 // साम्प्रतमार्द्रककुमार एव तं भिक्षुकं युक्तिपराजितं सन्तंसोल्लण्ठं बिभणिषुराह-लद्धे इत्यादि, अहो युष्माभिरथानन्तर्ये एवंभूताभ्युपगमे सति लब्धोऽर्थो-8 विज्ञानं यथावस्थितंतत्त्वमिति, तथाऽवगतःसुचिन्तितो भवद्भिर्जीवानामनुभागः- कर्मविपाकस्तत्पीडेति, तथैवंभूतेन विज्ञानेन भवतां यशः पूर्वसमुद्रमपरं च स्पृष्टम्, गतमित्यर्थः, तथा भवद्भिरेवंविधविज्ञानावलोकनेनावलोकितः पाणितलस्थ इवायं लोक इति अहो! भवतां विज्ञानातिशयो यदुत- भवन्तः पिण्याकपुरुषयोर्बालालाबुकयोर्वा विशेषानभिज्ञतया पापस्य कर्मणो Oरथ-अनन्तरं (मु०)। // 737 //
Loading... Page Navigation 1 ... 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328