SearchBrowseAboutContactDonate
Page Preview
Page 271
Loading...
Download File
Download File
Page Text
________________ श्रीसूत्रकृताङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्ध:२ // 737 // श्रुतस्कन्ध:२ षष्ठमध्ययनं आईक्रीयम्, सूत्रम् 29-36 (764-771) आर्द्र कस्योत्तरः अतो भूताभिशङ्कया जीवोपमर्दोऽत्र भविष्यतीत्येवंबुद्ध्या सर्वमनुष्ठानं जुगुप्समानः- तदुपमईं परिहरन् वदेत् कुर्यादप्यतः कुतोऽस्तीह- अस्मिन्नेवंभूतेऽनुष्ठाने क्रियमाणे प्रोच्यमाने वाऽस्मत्पक्षे युष्मदापादितो दोष इति // 31 // 766 // अधुना पिण्णाके पुरुषबुद्ध्या असंभवमेव दर्शयितुमाह- पुरिसे त्यादि, तस्यां पिण्णाकपिण्ड्यां पुरुषोऽयमित्येवमत्यन्तजडस्यापि विज्ञप्तिरेव नास्ति, तस्माद्य एवं वक्ति सोऽत्यन्तं पुरुषस्तथाभ्युपगमेन हुशब्दस्यैवकारार्थत्वेन अनार्य एवासौ यः पुरुषमेव खलोऽयमिति मत्वा हतेऽपिनास्ति दोष इत्येवं वदेत्, तथाहि- कः संभव पिन्नाकपिण्ड्यां पुरुषबुद्धरित्यतोवागपीयमीहगसत्येति सत्त्वोपघातकत्वात्, ततश्च निःशङ्कप्रहार्यनालोचको निर्विवेकतया बद्ध्यते, तस्मात्पिण्णाककाष्ठादावपि प्रवर्त्तमानेन जीवोपमईभीरूणा साशङ्कन प्रवर्त्तितव्यमिति // 32 // 767 // किञ्चान्यत्- वाचाऽभियोगो वागभियोगस्तेनापि यद्यस्मादावहेत्पा कर्म अतो विवेकी भाषागुणदोषज्ञो न तादृशी भाषामुदाहरेत्- नाभिदध्याद्, यत एवं ततोऽस्थानमेतद्वचनं गुणानाम् , न हि प्रव्रजितो यथावस्थितार्थाभिधायी एतद् उदारं सुष्ठ परिस्थूरं निःसारं निरुपपत्तिकं वचनं ब्रूयात्, तद्यथा- पिण्याकोऽपि पुरुषः पुरुषोऽपि पिण्णाकः, तथाऽलाबुकमेव बालको बालक एव वाऽलाबुकमिति // 33 // 768 // साम्प्रतमार्द्रककुमार एव तं भिक्षुकं युक्तिपराजितं सन्तंसोल्लण्ठं बिभणिषुराह-लद्धे इत्यादि, अहो युष्माभिरथानन्तर्ये एवंभूताभ्युपगमे सति लब्धोऽर्थो-8 विज्ञानं यथावस्थितंतत्त्वमिति, तथाऽवगतःसुचिन्तितो भवद्भिर्जीवानामनुभागः- कर्मविपाकस्तत्पीडेति, तथैवंभूतेन विज्ञानेन भवतां यशः पूर्वसमुद्रमपरं च स्पृष्टम्, गतमित्यर्थः, तथा भवद्भिरेवंविधविज्ञानावलोकनेनावलोकितः पाणितलस्थ इवायं लोक इति अहो! भवतां विज्ञानातिशयो यदुत- भवन्तः पिण्याकपुरुषयोर्बालालाबुकयोर्वा विशेषानभिज्ञतया पापस्य कर्मणो Oरथ-अनन्तरं (मु०)। // 737 //
SR No.600435
Book TitleSutrkritang Sutram Dwitiya Shrutskandh
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages328
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy