________________ श्रीसूत्रकृताङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः२ // 738 // श्रुतस्कन्ध:२ षष्ठमध्ययनं आईक्रीयम्, सूत्रम् 29-36 (764-771) आद्रे कस्योत्तरः यथैतद्भावाभावं प्राक्कल्पितवन्त इति // 34 // 769 // तदेवं परपक्षं दूषयित्वा स्वपक्षस्थापनायाह-मौनीन्द्रशासनप्रतिपन्नाः सर्वज्ञोक्तमार्गानुसारिणो जीवानामनुभाग- अवस्थाविशेषं तदुपमर्दैन पीडां वा सुष्छु विचिन्तयन्तः पर्यालोचयन्तोऽन्नविधौ शुद्धिं आहृतवन्तः स्वीकृतवन्तो द्विचत्वारिंशद्दोषरहितेन शुद्धेनाहारेणाहारं कृतवन्तो न तु यथा भवतां पिशिताद्यपि पात्रपतितं न दोषायेति / तथा छन्नपदोपजीवी मातृस्थानोपजीवी सन्न व्यागृणीयाद् एषः अनन्तरोक्तोऽनुपश्चाद्धर्मोऽनुधर्मस्तीर्थकरानुष्ठानादनन्तरं भवतीत्यनुना विशिष्यते, इह अस्मिन् जगति प्रवचने वा सम्यग्यतानां संयतानां सत्साधूनाम्, न तु पुनरेवंविधो भिक्षूणामिति / यच्च भवद्भिरोदनादेरपि प्राण्यङ्गसमानतया हेतुभूतया मांसादिसादृश्यं चोद्यते तदविज्ञाय लोकतीर्थान्तरीयमतम्, तथाहि-8 प्राण्यङ्गत्वे तुल्येऽपि किञ्चिन्मांसं किञ्चिच्चामांसमित्येवं व्यवह्रियते, तद्यथा- गोक्षीररुधिरादेर्भक्ष्याभक्ष्यव्यवस्थितिः, तथा समानेऽपिस्त्रीत्वे भार्यास्वस्रादौ गम्यागम्यव्यवस्थितिरिति। तथा शुष्कतर्कदृष्ट्या योऽयं प्राण्यङ्गत्वादिति हेतुर्भवतोपन्यस्यते / तद्यथा- भक्षणीयं भवेन्मांसं, प्राण्यङ्गत्वेन हेतुना / ओदनादिवदित्येवं, कश्चिदाहातितार्किकः॥१॥सोऽसिद्धानैकान्तिकविरुद्धदोषदुष्टत्वादपकर्णनीयः, तथाहि-निरंशत्वाद्वस्तुनस्तदेव मांसं तदेव च प्राण्यङ्गमिति प्रतिज्ञाथैकदेशासिद्धः, तद्यथानित्यः शब्दो नित्यत्वाद्, अथ भिन्नं प्राण्यङ्गंततः सुतरामसिद्धो, व्यधिकरणत्वाद्, यथा देवदत्तस्य गृहं काकस्य कार्यात् तथाऽनेकान्तिकोऽपिश्वादिमांसस्याभक्ष्यत्वात्, अथ तदपि क्वचित्कदाचित्केषाञ्चिद्भक्ष्यमिति चेदेवंच सत्यस्थ्यादेरभक्ष्य-38 त्वादनैकान्तिकत्वम्, तथा विरुद्धाव्यभिचार्यपि, यथाऽयं हेतुर्मासस्य भक्ष्यत्वं साधयत्येवं बुद्धास्थ्नामपूज्यत्वमपि / तथा लोकविरोधिनी चेयं प्रतिज्ञा, मांसौदनयोरसाम्यादृष्टान्तविरोधश्चेत्येवं व्यवस्थिते यदुक्तं प्राग् यथा बुद्धानामपि पारणाय 7 तद्यथाऽयं (प्र०)। // 738 //