Book Title: Sutrkritang Sutram Dwitiya Shrutskandh
Author(s): Punyakiritivijay
Publisher: Shripalnagar Jain Shwetambar Murtipujak Derasar Trust
View full book text ________________ श्रीसूत्रकृताङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्ध:२ // 721 // श्रुतस्कन्धः२ षष्ठमध्ययनं आईक्रीयम्, सूत्रम् 3-6 (738-741) आई कस्योत्तरः किमरण्ये करिष्यसि?। अथ नो निर्जितावेतौ, किमरण्ये करिष्यसि?॥१॥ इत्यतो बाह्यमनङ्गमान्तरमेव कषायजयादिकं प्रधान कारणमिति स्थितम् ॥४॥७३९॥अपगतरागद्वेषस्य प्रभाषमाणस्यापि दोषाभावं दर्शयितुमाह- तस्य भगवतोऽपगतघनघातिकलङ्कस्योत्पन्नसकलपदार्थावि विज्ञानस्य जगदभ्युद्धरणप्रवृत्तस्यैकान्तपरहितप्रवृत्तस्य स्वकार्यनिरपेक्षस्य धर्म कथयतोऽपि तुशब्दस्यापिशब्दार्थत्वात् नास्ति कश्चिद्दोषः / किंभूतस्येत्याह- क्षान्तस्य क्षान्तिसंपन्नस्यानेन क्रोधनिरासमाह, तथा दान्तस्य उपशान्तस्यानेन तु मानव्युदासम्, तथा जितानि स्वविषयप्रवृत्तिनिषेधेन्द्रियाणि येन स जितेन्द्रियो वश्येन्द्रियोऽनेन तु लोभनिरासमाचष्टे, मायायास्तु लोभनिरासादेव निरासो द्रष्टव्यः, तन्मूलत्वात्तस्याः, भाषाया दोषा-असत्यासत्यामृषाकर्कशासभ्यशब्दोच्चारणादयस्तद्विवर्जकस्य- तत्परिहस्तिथा भाषाया ये गुणा- हितमितदेशकालासंदिग्धभाषणादयस्तनिषेवकस्य सतोब्रुवतोऽपि नास्ति दोषः, छद्मस्थस्य हि बाहुल्येन मौनव्रतमेव श्रेयः, समुत्पन्नकेवलस्य तु भाषणमपि गुणायेति // 5 // 740 // किंभूतं धर्ममसौ कथयतीत्याह- महव्वए पंचे त्यादि, महान्ति च तानि व्रतानि-प्राणातिपातविरमणादीनि तानि च साधूनां प्रज्ञापितवान्, पश्चापि तदपेक्षयाऽणूनि- लघूनि व्रतानि अणुव्रतानि पञ्चैव तानि श्रावकानुद्दिश्य प्रज्ञापितवान्, तथैव पञ्चाश्रवान्- प्राणातिपातादिरूपान् कर्मणः प्रवेशद्वारभूतान् तत्संवरं च सप्तदशप्रकारं संयमं प्रतिपादितवान्, संवरवतो हि विरतिर्भवतीत्यतो विरतिं च प्रतिपादितवान् चशब्दात्तत्फलभूतौ निर्जरामोक्षौच, इह अस्मिन्प्रवचने लोके वा श्रमणभावः श्रामण्यं-संपूर्णसंयमस्तस्मिन् वा विधेये मूलगुणान्- महाव्रताणुव्रतरूपान् तथोत्तरगुणान्- संवरविरत्यादिरूपान् पूर्णे कृत्स्ने संयमे विधातव्ये प्राज्ञ इति वा क्वचित्पाठः, प्रज्ञावानेतत्प्रतिपादितवानिति / किंभूतोऽसौ?- लवं-कर्म तस्माद् अवसक्कइ त्ति ®वान् पञ्चा (मु०)। // 721 //
Loading... Page Navigation 1 ... 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328