________________ श्रीसूत्रकृताङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्ध:२ // 721 // श्रुतस्कन्धः२ षष्ठमध्ययनं आईक्रीयम्, सूत्रम् 3-6 (738-741) आई कस्योत्तरः किमरण्ये करिष्यसि?। अथ नो निर्जितावेतौ, किमरण्ये करिष्यसि?॥१॥ इत्यतो बाह्यमनङ्गमान्तरमेव कषायजयादिकं प्रधान कारणमिति स्थितम् ॥४॥७३९॥अपगतरागद्वेषस्य प्रभाषमाणस्यापि दोषाभावं दर्शयितुमाह- तस्य भगवतोऽपगतघनघातिकलङ्कस्योत्पन्नसकलपदार्थावि विज्ञानस्य जगदभ्युद्धरणप्रवृत्तस्यैकान्तपरहितप्रवृत्तस्य स्वकार्यनिरपेक्षस्य धर्म कथयतोऽपि तुशब्दस्यापिशब्दार्थत्वात् नास्ति कश्चिद्दोषः / किंभूतस्येत्याह- क्षान्तस्य क्षान्तिसंपन्नस्यानेन क्रोधनिरासमाह, तथा दान्तस्य उपशान्तस्यानेन तु मानव्युदासम्, तथा जितानि स्वविषयप्रवृत्तिनिषेधेन्द्रियाणि येन स जितेन्द्रियो वश्येन्द्रियोऽनेन तु लोभनिरासमाचष्टे, मायायास्तु लोभनिरासादेव निरासो द्रष्टव्यः, तन्मूलत्वात्तस्याः, भाषाया दोषा-असत्यासत्यामृषाकर्कशासभ्यशब्दोच्चारणादयस्तद्विवर्जकस्य- तत्परिहस्तिथा भाषाया ये गुणा- हितमितदेशकालासंदिग्धभाषणादयस्तनिषेवकस्य सतोब्रुवतोऽपि नास्ति दोषः, छद्मस्थस्य हि बाहुल्येन मौनव्रतमेव श्रेयः, समुत्पन्नकेवलस्य तु भाषणमपि गुणायेति // 5 // 740 // किंभूतं धर्ममसौ कथयतीत्याह- महव्वए पंचे त्यादि, महान्ति च तानि व्रतानि-प्राणातिपातविरमणादीनि तानि च साधूनां प्रज्ञापितवान्, पश्चापि तदपेक्षयाऽणूनि- लघूनि व्रतानि अणुव्रतानि पञ्चैव तानि श्रावकानुद्दिश्य प्रज्ञापितवान्, तथैव पञ्चाश्रवान्- प्राणातिपातादिरूपान् कर्मणः प्रवेशद्वारभूतान् तत्संवरं च सप्तदशप्रकारं संयमं प्रतिपादितवान्, संवरवतो हि विरतिर्भवतीत्यतो विरतिं च प्रतिपादितवान् चशब्दात्तत्फलभूतौ निर्जरामोक्षौच, इह अस्मिन्प्रवचने लोके वा श्रमणभावः श्रामण्यं-संपूर्णसंयमस्तस्मिन् वा विधेये मूलगुणान्- महाव्रताणुव्रतरूपान् तथोत्तरगुणान्- संवरविरत्यादिरूपान् पूर्णे कृत्स्ने संयमे विधातव्ये प्राज्ञ इति वा क्वचित्पाठः, प्रज्ञावानेतत्प्रतिपादितवानिति / किंभूतोऽसौ?- लवं-कर्म तस्माद् अवसक्कइ त्ति ®वान् पञ्चा (मु०)। // 721 //