SearchBrowseAboutContactDonate
Page Preview
Page 254
Loading...
Download File
Download File
Page Text
________________ श्रुतस्कन्धः२ षष्ठमध्ययनं आईक्रीयम्, सूत्रम् 3-6 (738-741) आर्द्र कस्योत्तरः श्रीसूत्रकृताङ्गंधर्मदेशना विधानं तत्प्रारबद्धभवोपग्राहिकर्मचतुष्टयक्षपणोद्यतस्य विशेषतस्तीर्थकरनाम्नो वेदनार्थं अपरासांचोच्चैर्गोत्रशुभानियुक्ति युर्नामादीनांशुभप्रकृतीनामिति / यदिवा पूर्व साम्प्रतमनागते च काले रागद्वेषरहितत्वादेकत्वभावनानतिक्रमणाच्चैकत्वमेवानुश्रीशीला० वृत्तियुतम् पचरितं भगवानशेषजनहितं धर्मं कथयन् प्रतिसंदधाति, न तस्य पूर्वोत्तरयोरवस्थयोराशंसारहितत्वाद्भेदोस्ति, अतो यदुच्यते श्रुतस्कन्ध:२ भवता- पूर्वोत्तरयोरवस्थयोरसाङ्गत्यं तत् प्लवत इति ॥३॥७३८॥स्यादेतद्-धर्मदेशनया प्राणिनां कश्चिदुपकारो भवत्युत // 720 // नेति?, भवतीत्याह-समिच्च लोय मित्यादि, सम्यग्यथावस्थितं लोकं षड्द्रव्यात्मकं मत्वा अवगम्य केवलालोकेन परिच्छिद्य त्रस्यन्तीति त्रसाः-सनामकर्मोदया द्वीन्द्रियादयः, तथा तिष्ठन्तीति स्थावराः- स्थावरनामकर्मोदयात्स्थावराः पृथिव्यादयस्तेषामुभयेषामपि जन्तूनां क्षेमं शान्तिः रक्षा तत्करणशीलः क्षेमंकरः श्राम्यतीति श्रमणो- द्वादशप्रकारतपोनिष्टप्तदेहः, तथा मा हणत्ति प्रवृत्तिर्यस्यासौ माहनो ब्राह्मणो वा स एवंभूतो निर्ममो रागद्वेषरिहतः प्राणिहितार्थं न लाभपूजाख्यात्यर्थं धर्ममाचक्षाणोऽपि प्राग्वत् छद्मस्थावस्थायां मौनव्रतिक इव वाक्संयत एव, उत्पन्नदिव्यज्ञानत्वाद्भाषागुणदोषविवेकज्ञतया भाषणेनैव गुणावाप्तेः, अनुत्पन्नदिव्यज्ञानस्य तु मौनव्रतिकत्वेनेति, तथा देवासुरनरतिर्यक्सहस्रमध्येऽपि व्यवस्थितः पङ्काधारपङ्कजवत्तद्दोषव्यासङ्गाभावान्ममत्वविरहादाशंसादोषविकलत्वादेकान्तमेवासौ सारयति प्रख्याति नयति साधयतीतियावत् / ननु चैकाकिपरिकरोपेतावस्थयोरस्ति विशेषः, प्रत्यक्षेणैवोपलभ्यमानत्वात्, सत्यम्, अस्ति विशेषो बाह्यतो न त्वान्तरतोऽपि, दर्शयति- तथा प्राग्वदर्चा- लेश्या शुक्लध्यानाख्या यस्य स तथार्चः, यदिवा अर्चा- शरीरं तच्च प्राग्वद्यस्य स तथार्चः, तथाहि-असावशोकाधष्टप्रातिहार्योपेतोऽपि नोत्सेकं याति, नापि शरीरं संस्कारायत्तं विदधाति, स हि भगवानात्यन्तिकरागद्वेषप्रहाणादेकाक्यपिजनपरिवृतोऽप्येकाकी, न तस्य तयोरवस्थयोः कश्चिद्विशेषोऽस्ति, तथा चोक्तं- रागद्वेषौ विनिर्जित्य, // 720
SR No.600435
Book TitleSutrkritang Sutram Dwitiya Shrutskandh
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages328
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy