________________ श्रीसूत्रकृताङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः 2 // 719 // श्रुतस्कन्ध:२ षष्ठमध्ययन आईक्रीयम्, सूत्रम् 3-6 (738-741) आर्द्र कस्योत्तरः बहुजन्योऽर्थस्तमर्थं बहुजनहितं कथयन् विहरति, एतच्चास्यानुष्ठानं पूर्वापरेण न संधत्ते, तथाहि- यदि साम्प्रतीयं वृत्तं प्राकारत्रयसिंहासनाशोकवृक्षभामण्डलचामरदिकं मोक्षाङ्गमभविष्यत्ततो या प्राक्तन्येकचर्या क्लेशबहुलाऽनेन कृता सा क्लेशाय केवलमस्येति, यदि सा कर्मनिर्जरणहेतुका परमार्थभूता ततः साम्प्रतावस्था परप्रतारकत्वाद्दम्भकल्पेत्यतः पूर्वोत्तरयोरनुष्ठानयोः- मौनव्रतिकधर्मदेशनारूपयोः परस्परतो विरोध इति // 2 // 737 // अपिच- यद्येकान्तचारित्वमेव शोभनं पूर्वमाश्रितत्वात् ततः सर्वदाऽन्यनिरपेक्षैस्तदेव कर्तव्यम्, अथ चेदंसाम्प्रतं महापरिवारवृतं साधुं मन्यसे ततस्तदेवादावप्याचरणीयमासीद्, अपिच द्वे अप्येते छायातपवदत्यन्तविरोधिनी वृत्ते नैकत्र समवायं गच्छतः, तथा यदि मौनेन धर्मस्ततः किमियं महता प्रबन्धेन धर्मदेशना?, अथानयैव धर्मस्ततः किमिति पूर्वं मौनव्रतमनेनाललम्बे?, यस्मादेवं तस्मात्पूर्वोत्तरव्याहतिः / तदेवं गोशालकेन पर्यनुयुक्त आर्द्रककुमारः श्लोकपश्चार्द्धनोत्तरदानायाह पुव्विं च इण्डिं च अणागतं वा, एगंतमेवं पडिसंधयाति // सूत्रम् 3 // ( // 738 // ) समिच्च लोगं तसथावराणं, खेमंकरे समणे माहणे वा। आइक्खमाणोवि सहस्समझे, एगंतयं सारयती तहच्चे / / सूत्रम् 4 // ( // 739 // ) धम्मं कहतस्स उणत्थि दोसो, खंतस्सदंतस्स जितिंदियस्स।भासाय दोसे य विवजगस्स, गुणेय भासाय णिसेवगस्स।सूत्रम् // (1740 // ) ___महव्वए पंच अणुव्वए य, तहेव पंचासव संवरे य / विरतिं इहस्सामणियंमि पन्ने, लवावसकी समणेत्तिबेमि // सूत्रम् 6 // // 741 // ) पूर्वं पूर्वस्मिन्काले यन्मौनव्रतिकत्वं याचैकचर्या तच्छद्मस्थत्वाद्घातिकर्मचतुष्टयक्षयार्थम्, साम्प्रतं यन्महाजनपरिवृतस्य // 712