Book Title: Siddha Hemchandra Shabdanushasan Bruhad Vrutti Part 02
Author(s): Vajrasenvijay
Publisher: Bherulal Kanaiyalal Religious Trust
View full book text ________________
स्वोपज्ञोणादिगणसूत्रविवरणम् .
[ सूत्र-३८९-३६३
उन्दैप् क्लेदने, उद्रः-ऋषिः, मत्स्यश्च । संपूर्वात् समुन्दन्ति-आर्दीभवन्ति वेलाकाले नद्योऽस्मादिति समुद्रः-सागरः । भीमादित्वादपादाने । दम्भूट् दम्भे, दभ्रः-अल्पः, चन्द्रः, कुशः, कुशलः, सूर्यश्च । शुभि दीप्तौ, शुभ्रः-अवदातः। उम्भत् पूरणे, उभ्र -मेघः, पेलवश्च । दंशं दशने, दश्रः-दन्तः, सर्पश्च । चिंगट चयने, चिरम् अशीघ्रम् । सिंग्ट् बन्धने, सिरारुधिरस्रोतोवाहिनी नाडी। वहीं प्रापणे उह्रः-अनड्वान् । विसच प्रेरणे, विस्रम्-आमगन्धि । वसं निवासे, उस्रः-रश्मिः । बाहुलकात् षत्वं न भवति । उस्रा गौः । शुच शोके, शुक्रः-ग्रहः, मासः, शुक्लश्च, शुक्र-रेतः, लत्वे शुक्लः-वर्णः, कत्वं न्यङक्वादित्वात् । विधू गत्याम् , सिध्रः-साधुः, वृक्षः, मांसप्रभेदश्च । गृधच अभिकाङ क्षायाम गध्रः-श्येनः. लुब्धकः, कङ्कश्च । त्रिइन्धपि दीप्तौ, विपूर्वात् , वीध्रः-अग्निः, वायुः, नभः, निर्मल:, पूर्णचन्द्रमण्डलं च । श्विताङ वरणे, श्वित्रं-श्वेतकुष्ठम् । वृतूङ वर्तने । वृत्रः-दानवःबलवान् , रिपुश्च, वृत्रं-पापम् । णींग प्रापणे, नीरं-जलम् । शीङ क स्वप्ने. शीरः-अजगरः पुंग्ट् अभिषवे, सुरः-देवः, सूरा-मद्यम् । षूङौच् प्राणिप्रसवे, सूरः-आदित्यः, रश्मिश्च । ३८८॥
इण-धाग्भ्यां वा ॥ ३८६ ॥ __ आभ्यां रः प्रत्ययो भवति, स च किद्वा। इंण्क् गतौ, इरा-मदनीयपानविशेषः मेदिनी च, एरा-एडका । डुधांग्क् धारणे च । धीर:-सत्त्ववान् , धृतिमांश्च, धारा जलयष्टि:-खङ्गावयवः, अश्वगतिविशेषश्च ॥ ३८९ ।।
चुम्बि-कुम्बि-तुम्बेर्नलुक् च ॥ ३६० ।
एभ्यः किद् र: प्रत्ययो भवति, नकारस्य चैषां लुग भवति । चुबु वक्त्रसंयोगे, चुब्रवक्त्रम् चुम्ब्रः-रश्मिः । कुबु आच्छादने, कुब्र-संकटम् , भग्नपृष्ठः, फल्गुहस्ती, चर्म, गृहाच्छादनं च । तुबु अर्दने, तुब्र-कुटिलम् ॥ ३९० ।।
भन्देर्वा ॥ ३६१॥
भदुङ, सुख-कल्याणयोः, इत्यस्माद् रः प्रत्ययो भवति, नकारस्य च लुग् वा भवति । भद्रं, भन्द्रं च कल्याणम् , सुखं च ।। ३६१ ।। ।
चि-जि-शु-सि-मि-तम्यमर्दीर्घश्च ॥ ३६२ ॥
एभ्यो रः प्रत्ययो भवति दीर्घश्चैषां भवति । चिंग्ट् चयने, चोर-जीणं वस्त्रं, वल्कलं च । जि अभिभवे जोरः-अजाजी, अग्निः, वायुः, अश्वश्च, जोरम्-अन्नम् , लत्वे जील:-चर्मपुटः । शुं गतो, शूरः-विक्रान्तः । बिग्ट् बन्धने, सीरं-हलम् , सीरा हलविलेखिता लेखा। डुमिंग्ट प्रक्षेपणे, मीरः-समुद्रः, मीरंजलम् , मीरा-मांस्पचनी, देवसीमा च । तमूच् काङ्क्षायाम् , ताम्रः-वर्णः, शुल्वं च । अम गतौ, आम्रः-वृक्षः। अर्द गतियाचनयोः, आर्द्र-सरसम् ।। ३९२ ॥
चकि-रमि-विकसे-रुच्चास्य ॥ ३६३ ॥
Loading... Page Navigation 1 ... 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512