Book Title: Siddha Hemchandra Shabdanushasan Bruhad Vrutti Part 02
Author(s): Vajrasenvijay
Publisher: Bherulal Kanaiyalal Religious Trust

View full book text
Previous | Next

Page 481
________________ ४७२ ] स्वोपशोणादिगणमूत्रविवरणम् [ सूत्र-६५१-६५५ आभ्यां क्विप् प्रत्ययो भवति । विशंत् प्रवेशने, विश:-प्रजाः, विट्-वैश्यः, पुरीषं अपत्यं च । पशण बन्धने, विपूर्वः, विपाशयति स्म वशिष्ठमिति विपाट-नदी ॥ ५० ॥ सहेः षषु च ।। ६५१॥ षहि मर्षणे, इत्यस्मात् क्विप् प्रत्ययो भवति, षष् चास्यादेशो भवति । षट्संख्या ।। ६५१॥ - अस् ॥ ६५२॥ सर्वधातुभ्यो बहूलम् अस् प्रत्ययो भवति । तपं संतापे, तपः-संताप', माघमासः, निर्जराफलं च अनशनादि । सुष्ठु तपतीति, सुतपाः । एवं महातपाः । णमं प्रह्वत्वे, नमःपूजायाम् । तमूच् काङ क्षायाम् , तमः-अन्धकारः, तृतीय गुणः, अज्ञानं च । इणं गतो, अय:-काललोहम । वींक प्रजनादौ. वयः पक्षी, प्राणिनां कालकूता शरीरावस्था च यौवनादिः । वचि दीप्तौ, वर्च:-लावण्यम् , अन्नमलं, तेजश्च । सुष्ठु वर्चत इति सुवर्चाः । रक्ष पालने, रक्षः-निशाचरः। त्रिमिदाच स्नेहने, मेद:-चतुर्थों धातुः । रह त्यागे, रहः-प्रच्छन्नम् । षहि मर्षणे, सहाः-मार्गशीर्षमासः । शभच् हिंसायाम् , नमःआकाशं श्रावणमासश्च । चित संज्ञाने, चेतः-चित्तम् । प्रचेताः-वरुणः। मनिच् ज्ञाने, मन:-नोइन्द्रियम् । ब क व्यक्तायां वाचि, वचः-वचनम् । रुदृक् अश्रुविमोचने, रोदःनभः, रोदसी-द्यावापृथिव्यौ। रुधम्पी आवरणे, रोधः-तीरम् । अनक प्राणने, अन:शकटम् , अन्नं, भोजनं च । सृगतो, सर:- जलाशयविशेषः। तृ प्लवन-तरणयो, तरःवेगः, बलं च । रह गतो, रहः-जवः। तिजि क्षमा-निशानयोः, तेजः-दीप्तिः । मयि दीप्तौ, मयः-सुखम् । मह पूजायाम् , महः-तेजः । अचिण् पूजायाम् , अर्चः-पूजा । षद्ल विशरणगत्यवसादनेषु, सदः-सभा, भवनं च । अजौप व्यक्त्यादी, अजः-स्नेहः ॥ ९५२ । पा-हाभ्यां पय-यौ च ॥ ६५३ ॥ पां पाने, ओहांक त्यागे, इत्येताभ्याम् अस् प्रत्ययो भवति, यथासंख्यं च पय् ह्य इत्यादेशावनयोर्भवतः । पयः-क्षीरं, जलं च । ह्यः-अनन्तरातीते दिने ।। ६६३ ।। छदि-बहिन्यां छन्दोधौ च ॥ ६५४ ॥ __ छदण संवरणे, वहीं प्रापणे, इत्येताभ्याम् अस् प्रत्ययो भवति, यथासंख्यं चानयोः छन्द् ऊध् इत्यादेशौ भवतः। छन्दः-वेदः, इच्छा, वाग्बन्धविशेषश्च । ऊध:-धेनोः क्षीराधारः।। ६५४ ॥ श्वेः शव च वा ॥ ६५५॥ . ट्वोश्वि गति-वृद्ध्योः , इत्यस्माद् अस् प्रत्ययो भवति, अस्य च शव इत्यादेशो वा भवति । शवः-रोगाभिधानं, मृतदेहश्च । शवसो, शवांसि । श्वयः-शोफः, बलं च । श्वयसी, श्वयांसि ॥९५५ ॥

Loading...

Page Navigation
1 ... 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512