Book Title: Siddha Hemchandra Shabdanushasan Bruhad Vrutti Part 02
Author(s): Vajrasenvijay
Publisher: Bherulal Kanaiyalal Religious Trust

View full book text
Previous | Next

Page 485
________________ ४७६ ] स्वोपज्ञोणादिगण सूत्रविवरणम् [ सूत्र-९८१-९८६ रिपी विरेचने, इत्यस्माद् नस् प्रत्ययो भवति, अस्य च ककारोऽन्तादेशो भवति । रेवण:- पापं धनं च ।। ९८० ।। री-वृभ्यां पस् ॥ ८१ ॥ अस्यां पस् प्रत्ययो भवति । श् गति-रेषणयो:, रेप:- पापम् । वृट् वरणे, वर्पःरूपम् ।। ६८१ ।। शीङः फस् च ॥ ६८२ ॥ शीङक् स्वप्ने, इत्यस्मात् फस्, चकारात् पस् प्रत्ययो भवति । शेफः, शेपश्च ढुम् ।। ८२ ।। पचि वचिभ्यां सस् ॥ ६८३ ॥ 1 आभ्यां सस् प्रत्ययो भवति । डुपचींष् पाके, पक्ष:- चक्रम् इन्धनं च । वचंक् भाषणे, वक्षः - उरः, शरीरं च ।। ९८३ । इणस्तशस् || ६८४ ॥ इणंक् गतौ, इत्यस्मात् तशस् प्रत्ययो भवति । एतशाः सोमः, अध्वर्युः, वायुः, अग्निः, अर्क: इन्द्रश्च ।। ६८४ ।। वष्टेः कनस् || ६८५ ॥ वशक् कान्तौ इत्यस्माद् किद् अनस् प्रत्ययो भवति । उशना :- शुक्रः ।। ९८५ ।। चन्दो रमस् ॥ ६८६ ॥ चदु दीप्त्या ह्लादयो:, इत्यस्माद् रमस् प्रत्ययो भवति । चन्द्रमाः शशी ।। ९८६ ॥ दमेरुनसूनसौ ॥ ६८७ ॥ दमूच् उपशमे, इत्यस्माद् उनस् ऊनस् इत्येतौ प्रत्ययौ भवतः । दमुना :- अग्निः । दमूना:- सूर्यः, देव:, उपशान्तश्च ।। ९८७ ।। इण आसू || ६८८ ॥ इणंक् गतौ, इत्यस्माद् आस् प्रत्ययो भवति । अयाः कालः, आदित्यश्च ।। ९८८ ।। रुचि शुचि-हु-सृ-पि छादि हृदिभ्य इस् || ६८६ ॥ एभ्य इस् प्रत्ययो भवति । रुचि अभिप्रीत्यां च रोचिः- किरणः । वसुपूर्वाद् वसुरोचि:- वासवः, किरणः, ऋतुश्च । अर्च पूजायाम्, अचि:- ज्वाला । शुच् शोके, शोचि:रश्मिः, शोकः, पिङ्गलभावः, विविक्तं च । हुंकू दानादनयो:, हविः - पुरोडाशादि । सृप्लु गतौ, सर्पिः-घृतम् । छदण् संवरणे, छादयतीति छदिः । 'छदेरिस् मन् त्रट् क्वौ' इति ह्रस्वः । बाहुलकाद्दीर्घत्वे छादिः - उभयं गृहच्छादनम् । ऊछुपी दीप्ति देवनयो:, छर्दिःवमनम् ।। ६८६ ।

Loading...

Page Navigation
1 ... 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512