Book Title: Siddha Hemchandra Shabdanushasan Bruhad Vrutti Part 02
Author(s): Vajrasenvijay
Publisher: Bherulal Kanaiyalal Religious Trust
View full book text ________________
सूत्र-९७२-९८०]
स्वोपज्ञोणादिगणसूत्रविवरणम्
[४७५
विधेर्वा ॥ १७२॥
विधत् विधाने, इत्यस्माद् अस् प्रत्ययो भवति, स च किद्वा भवति । वेधाः-विद्वान्, सर्ववित् , प्रजापतिश्च । विधाः-स एव ॥९७२ ॥
नुवो धयादिः ॥ ६७३ ॥
णूत् स्तवने, इत्यस्माद् धकारादिस्थकारादिश्च किद् अस् प्रत्ययो भवति । नूधा नूथाश्च-सूतमागधौ । धादौ गुणमिच्छन्त्येके । नोषाः-ऋषिः, ऋत्विक् ॥ ६७३ ।।
वया-पयः-पुरोरेतोभ्यो धागः॥ ६७४ ॥
एभ्यः पराद् डुधांग्क् धारणे, इत्यस्मात् किद् अस् प्रत्ययो भवति । वयोधाः-युवा, चन्द्रः, प्राणी च । पयोधाः-पर्जन्यः । पुरोधाः-पुरोहितः, उपाध्यायश्च । रेतोधाःजनकः ॥ ९७४ ॥
नन ईहेरेहेधौ च ॥ १७५॥
नत्र पूर्वाद् ईहि चेष्टायाम् , इत्यस्माद् अस् प्रत्ययो भवति, अस्य च एह, एथ् इत्यादेशौ भवतः । अनेहा:-कालः, इन्द्रः, चन्द्रश्च । अनेधा:-अग्निः, वायुश्च ।। ९७५ ॥
विहायस-सुमनस्-पुरुदंशस्-पुरूरवो-ऽङ्गिरसः ॥ ६७६ ॥ .
एतेऽस् प्रत्ययान्ता निपात्यन्ते । विपूर्वाज्जहातेजिहीतेर्वा योऽन्तश्च । विजहातीति विहाय-आकाशम् , विजिहीत इति विहायाः-पक्षी। सुपूर्वान्मानेह्रस्वश्च । सुष्ठु मानयन्ति मान्यन्ते वा, सुमनसः-पुष्पाणि । पुरुं दशतीति पुरुदंशाः-इन्द्रः । पुरुपूर्वाद्रौतेर्दीर्घश्च, पुरु रौति पुरूरवाः-राजा, यमुर्वशी चकमे । अङगेरिरोऽन्तश्च । अङ्गतीति-अङ्गिरा:ऋषिः ॥ ९७६ ॥
आतेजस्थसौ ॥ १७७ ॥
पांक् रक्षणे, इत्यस्माद् जस् थस् इत्येतो. प्रत्ययौ भवतः। पाज:-बलम् । पाथ:उदकम् अन्नं च ।। ९७७ ॥
व रीभ्यां तस् ॥ ९७८ ॥
आभ्यां तस् प्रत्ययो भवति । स्रु गतो, स्रोतः-निर्झरणम् , सुष्ठु स्रवतीति सुस्रोताः । रीश् गतिरेषणयोः, रेतः-शुक्रम् ॥ ९७८ ।।
अर्तीण्भ्यां नस् ॥ ६७६ ॥ - आभ्यां नस् प्रत्ययो भवति । ऋक् गती, अर्णः-जलम् । इणं गतो, एनः-पापम् , अपराधश्च ।। ९७९ ॥
रिचेः क च ॥ ६८०॥
Loading... Page Navigation 1 ... 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512