SearchBrowseAboutContactDonate
Page Preview
Page 484
Loading...
Download File
Download File
Page Text
________________ सूत्र-९७२-९८०] स्वोपज्ञोणादिगणसूत्रविवरणम् [४७५ विधेर्वा ॥ १७२॥ विधत् विधाने, इत्यस्माद् अस् प्रत्ययो भवति, स च किद्वा भवति । वेधाः-विद्वान्, सर्ववित् , प्रजापतिश्च । विधाः-स एव ॥९७२ ॥ नुवो धयादिः ॥ ६७३ ॥ णूत् स्तवने, इत्यस्माद् धकारादिस्थकारादिश्च किद् अस् प्रत्ययो भवति । नूधा नूथाश्च-सूतमागधौ । धादौ गुणमिच्छन्त्येके । नोषाः-ऋषिः, ऋत्विक् ॥ ६७३ ।। वया-पयः-पुरोरेतोभ्यो धागः॥ ६७४ ॥ एभ्यः पराद् डुधांग्क् धारणे, इत्यस्मात् किद् अस् प्रत्ययो भवति । वयोधाः-युवा, चन्द्रः, प्राणी च । पयोधाः-पर्जन्यः । पुरोधाः-पुरोहितः, उपाध्यायश्च । रेतोधाःजनकः ॥ ९७४ ॥ नन ईहेरेहेधौ च ॥ १७५॥ नत्र पूर्वाद् ईहि चेष्टायाम् , इत्यस्माद् अस् प्रत्ययो भवति, अस्य च एह, एथ् इत्यादेशौ भवतः । अनेहा:-कालः, इन्द्रः, चन्द्रश्च । अनेधा:-अग्निः, वायुश्च ।। ९७५ ॥ विहायस-सुमनस्-पुरुदंशस्-पुरूरवो-ऽङ्गिरसः ॥ ६७६ ॥ . एतेऽस् प्रत्ययान्ता निपात्यन्ते । विपूर्वाज्जहातेजिहीतेर्वा योऽन्तश्च । विजहातीति विहाय-आकाशम् , विजिहीत इति विहायाः-पक्षी। सुपूर्वान्मानेह्रस्वश्च । सुष्ठु मानयन्ति मान्यन्ते वा, सुमनसः-पुष्पाणि । पुरुं दशतीति पुरुदंशाः-इन्द्रः । पुरुपूर्वाद्रौतेर्दीर्घश्च, पुरु रौति पुरूरवाः-राजा, यमुर्वशी चकमे । अङगेरिरोऽन्तश्च । अङ्गतीति-अङ्गिरा:ऋषिः ॥ ९७६ ॥ आतेजस्थसौ ॥ १७७ ॥ पांक् रक्षणे, इत्यस्माद् जस् थस् इत्येतो. प्रत्ययौ भवतः। पाज:-बलम् । पाथ:उदकम् अन्नं च ।। ९७७ ॥ व रीभ्यां तस् ॥ ९७८ ॥ आभ्यां तस् प्रत्ययो भवति । स्रु गतो, स्रोतः-निर्झरणम् , सुष्ठु स्रवतीति सुस्रोताः । रीश् गतिरेषणयोः, रेतः-शुक्रम् ॥ ९७८ ।। अर्तीण्भ्यां नस् ॥ ६७६ ॥ - आभ्यां नस् प्रत्ययो भवति । ऋक् गती, अर्णः-जलम् । इणं गतो, एनः-पापम् , अपराधश्च ।। ९७९ ॥ रिचेः क च ॥ ६८०॥
SR No.032129
Book TitleSiddha Hemchandra Shabdanushasan Bruhad Vrutti Part 02
Original Sutra AuthorN/A
AuthorVajrasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages512
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy