Book Title: Siddha Hemchandra Shabdanushasan Bruhad Vrutti Part 02
Author(s): Vajrasenvijay
Publisher: Bherulal Kanaiyalal Religious Trust

View full book text
Previous | Next

Page 486
________________ सूत्र ९९०-९९७ ] स्वोपज्ञोणादिगणसूत्रविवरणम् [ ४७७ बंहि-हेर्नलुक् च ॥ ६६० ॥ आभ्याम् इस् प्रत्ययो भवति, नकारस्य च लुक् भवति । बहुङ वृद्धौ, बहिःअनभ्यन्तरे, वृहु शब्दे च, बर्हिः-शिखी, दर्भश्च ।। ६६०॥ द्युतेरादेश्च जः ॥ ६६१॥ द्युति दीप्तौ, इत्यस्माद् इस् प्रत्ययो भवति, धात्वादेश्च वर्णस्य जकारो भवति । ज्योतिः-तेजः, सूर्यः, अग्निः, तारका च ।। ६६१ ॥ सहेर्ध च ॥ १२ ॥ षहि मर्षणे, इत्यस्माद् इस् प्रत्ययो भवति, धकारश्चान्तादेशो भवति । सधिःसत्त्वम्, भूमिः, संयोगः, सहिष्णुः, अग्निः, अनड्वांश्च ।। ९९२ ॥ पस्थोऽन्तश्च ॥ ६६३ ॥ पां पाने, इत्यस्माद् इस् प्रत्ययो भवति, थकारश्चान्तो भवति । पाथि:-पानं, नदी, आदित्यः, ज्योतिः, स्वर्गलोकश्च ॥ ६९३ ।। नियो डित् ॥ ६६४॥ णींग प्रापणे, इत्यस्माद् डिद् इस् प्रत्ययो भवति । निश्चिनोति । निरुपसर्गोऽयं पृथग्भावे ॥ ९९४ ॥ अवेर्णित् ॥ ६६५ ॥ अव रक्षणादी, इत्यस्माद् णिद् इस् प्रत्ययो भवति । आविः-प्राकाश्ये, आविरभूत् आविष्करोति ।। ९९५ ॥ तु-भू-स्तुभ्यः कित् ॥ ६६६ ॥ एभ्यः, किद् इस् प्रत्ययो भवति । तुंक् वृत्त्यादौ, तुविः-समुद्रः, सरित्, विवस्वान्, प्रभुसंयोगश्च । भू सत्तायाम् , भुवि:-क्रतुः, समुद्रः, सरित् , विवस्वांश्च । ष्टुंग्क् स्तुतौ, स्तुविः-स्तोता, यज्ञश्च ।। ६६६ ।। रुघर्ति-जनि-तनि-धनि-मनि-ग्रन्थि-पृ-तपि-त्रपि-वपि-यजि-प्रादि-वेपिभ्य उस् ॥६६७॥ एभ्य उस् प्रत्ययो भवति । रुदृक् अश्रुविमोचने, रोदुः-अश्रुनिपातः । ऋक् गतौ, अरु:-व्रणः, आदित्यः, प्राणः, समुद्रश्च । जनैचि प्रादुर्भावे, जनुः, अपत्यं, पिता, माता, जन्म, प्राणो, च । तनूयी विस्तारे, तनु:-शरीरम् । धन धान्ये सौत्रः, धनु:-चापम् । मनिच ज्ञाने, मनुः-प्रजापतिः । ग्रन्थश् संदर्भ, ग्रन्थः-ग्रन्थः । पृश् पालन-पूरणयोः, परुः, पर्व, समुद्रः, धर्मश्च । तपं संतापे, तपुः त्रपुः, शत्रुः, भास्करः, अग्निः, कृच्छादि च । पौषि लज्जायाम् , त्रपुः-त्रपु । डुवपी बीजसंताने, वपुः-शरीरम् , लावण्यं, तेजश्च । यजी देव.

Loading...

Page Navigation
1 ... 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512