Book Title: Siddha Hemchandra Shabdanushasan Bruhad Vrutti Part 02
Author(s): Vajrasenvijay
Publisher: Bherulal Kanaiyalal Religious Trust

View full book text
Previous | Next

Page 482
________________ सूत्र--६५६-९६४ ] स्वोपज्ञोणादिगणसूत्रविवरणम् [ ४७३ विश्वाद् विदि-मुजिभ्याम् ।। ६५६ ॥ विश्वपूर्वाभ्यामाभ्याम् अस् प्रत्ययो भवति । विदक् ज्ञाने, विश्ववेदाः-अग्निः। भुजंप पालनाभ्यवहारयोः, विश्वभोजाः, अग्निः, लोकपालश्च ।। ९५६ ॥ चायेनों ह्रस्वश्च वा ॥ ६५७ ॥ चायग पूजा-निशामनयोः, इत्यस्माद् अस् प्रत्ययो भवति, नकारोऽन्तादेशो ह्रस्वश्चास्य वा भवति । चण:-चाणश्चान्नम् । बाहुलकाण्णत्वम् । णत्वं नेच्छन्त्येके ।। ९५७ ।। अशेयश्चादिः ॥ ६५८ ॥ अशश् भोजने, अशौटि व्याप्ती, इत्यस्माद् वा अस् प्रत्ययो भवति, यकारश्च घात्वादिर्भवति । यशः-माहात्म्यम् , सत्त्वं, श्रीः, ज्ञान, प्रतापः, कीर्तिश्च । एवं शोभनम् अश्नाति, अश्नुते वा इति सुयशाः । नागमेवाश्नाति नागयशाः । बृहदेनोऽश्नाति बृहद्यशाः । श्रुत एनोऽश्नाति श्रुतयशाः एवमन्येऽपि द्रष्टव्याः ॥ ९५८ ।। उषे च ॥६५६ ॥ उषू दाहे, इत्यस्मादस् प्रत्ययो भवति, जकारश्चान्तादेशो भवति । ओजः-बलं, प्रभावः, दीप्तिः , शुक्र च ॥ ६५९ ॥ स्कन्देध च ।। ६६० ॥ स्कंद गति-शोषणयोः, इत्यस्माद् अस् प्रत्ययो भवति । धकारश्चान्तादेशो भवति । स्कन्धः-स्वाङ्गम् ।। ९६० ।। अवेर्वा ॥ ६६१॥ अव रक्षणादी, इत्यस्माद् अस् प्रत्ययो भवति, धकारश्चान्तादेशो वा भवति । अधः-अवरम् , अव:-रक्षा ।। ६६१ ।। अमेर्भही चान्तौ ॥ ६६२ ॥ अम गतौ, इत्यस्माद् अस् प्रत्ययो भवति, भकार-हकारौ चान्तौ भवतः । अभ्भ:पानीयम् । अंहः-पापम् , अपराधः, दिनश्च ।। ६६२ ॥ , अदेरन्ध च वा ॥ ६६३॥ अदंक भक्षणे, इत्यस्मादस् प्रत्ययो भवति, अन्धादेशश्चास्य वा भवति । अद्यते तदिति अन्ध:-अन्नम् । अद्यते दृशा मनसा च तद् इति अदः, अनेन प्रत्यक्षविप्रकृष्टम् अप्रत्यक्षं च बुद्धिस्थमपदिश्यते ।। ९५३ ।। आपोऽपाप्ताप्सराब्जाश्च ।। ६६४ ॥ आप्लुट् व्याप्ती, इत्यस्माद् अस् प्रत्ययो भवति. । अप् , अप्त् , अप्सर्,

Loading...

Page Navigation
1 ... 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512