________________
४७२ ]
स्वोपशोणादिगणमूत्रविवरणम्
[ सूत्र-६५१-६५५
आभ्यां क्विप् प्रत्ययो भवति । विशंत् प्रवेशने, विश:-प्रजाः, विट्-वैश्यः, पुरीषं अपत्यं च । पशण बन्धने, विपूर्वः, विपाशयति स्म वशिष्ठमिति विपाट-नदी ॥ ५० ॥
सहेः षषु च ।। ६५१॥
षहि मर्षणे, इत्यस्मात् क्विप् प्रत्ययो भवति, षष् चास्यादेशो भवति । षट्संख्या ।। ६५१॥ - अस् ॥ ६५२॥
सर्वधातुभ्यो बहूलम् अस् प्रत्ययो भवति । तपं संतापे, तपः-संताप', माघमासः, निर्जराफलं च अनशनादि । सुष्ठु तपतीति, सुतपाः । एवं महातपाः । णमं प्रह्वत्वे, नमःपूजायाम् । तमूच् काङ क्षायाम् , तमः-अन्धकारः, तृतीय गुणः, अज्ञानं च । इणं गतो, अय:-काललोहम । वींक प्रजनादौ. वयः पक्षी, प्राणिनां कालकूता शरीरावस्था च यौवनादिः । वचि दीप्तौ, वर्च:-लावण्यम् , अन्नमलं, तेजश्च । सुष्ठु वर्चत इति सुवर्चाः । रक्ष पालने, रक्षः-निशाचरः। त्रिमिदाच स्नेहने, मेद:-चतुर्थों धातुः । रह त्यागे, रहः-प्रच्छन्नम् । षहि मर्षणे, सहाः-मार्गशीर्षमासः । शभच् हिंसायाम् , नमःआकाशं श्रावणमासश्च । चित संज्ञाने, चेतः-चित्तम् । प्रचेताः-वरुणः। मनिच् ज्ञाने, मन:-नोइन्द्रियम् । ब क व्यक्तायां वाचि, वचः-वचनम् । रुदृक् अश्रुविमोचने, रोदःनभः, रोदसी-द्यावापृथिव्यौ। रुधम्पी आवरणे, रोधः-तीरम् । अनक प्राणने, अन:शकटम् , अन्नं, भोजनं च । सृगतो, सर:- जलाशयविशेषः। तृ प्लवन-तरणयो, तरःवेगः, बलं च । रह गतो, रहः-जवः। तिजि क्षमा-निशानयोः, तेजः-दीप्तिः । मयि दीप्तौ, मयः-सुखम् । मह पूजायाम् , महः-तेजः । अचिण् पूजायाम् , अर्चः-पूजा । षद्ल विशरणगत्यवसादनेषु, सदः-सभा, भवनं च । अजौप व्यक्त्यादी, अजः-स्नेहः ॥ ९५२ ।
पा-हाभ्यां पय-यौ च ॥ ६५३ ॥
पां पाने, ओहांक त्यागे, इत्येताभ्याम् अस् प्रत्ययो भवति, यथासंख्यं च पय् ह्य इत्यादेशावनयोर्भवतः । पयः-क्षीरं, जलं च । ह्यः-अनन्तरातीते दिने ।। ६६३ ।।
छदि-बहिन्यां छन्दोधौ च ॥ ६५४ ॥ __ छदण संवरणे, वहीं प्रापणे, इत्येताभ्याम् अस् प्रत्ययो भवति, यथासंख्यं चानयोः छन्द् ऊध् इत्यादेशौ भवतः। छन्दः-वेदः, इच्छा, वाग्बन्धविशेषश्च । ऊध:-धेनोः क्षीराधारः।। ६५४ ॥
श्वेः शव च वा ॥ ६५५॥ .
ट्वोश्वि गति-वृद्ध्योः , इत्यस्माद् अस् प्रत्ययो भवति, अस्य च शव इत्यादेशो वा भवति । शवः-रोगाभिधानं, मृतदेहश्च । शवसो, शवांसि । श्वयः-शोफः, बलं च । श्वयसी, श्वयांसि ॥९५५ ॥