________________
सूत्र - ६४१-९५० ]
स्वोपज्ञोणादिगणसूत्र विवरणम्
ई-कमि-शमि समिभ्यो डित् ॥ ६४१ ।।
यो डि ईम् प्रत्ययो भवति । ईङ च गतौ, ईम् । कमूङ कान्तौ कीम् । शमूच् उपशमे, शीम् । षम वैक्लव्ये, सीम् - अभिनयव्याहरणान्येतानि । ईम् शीम - अव्यक्ते । कीम् संशयप्रश्नादिषु । सीम् - अमर्ष - पादपूरणयोः ।। ९४१ ।।
[ ४७१
क्रमि - गमि क्षमेस्तुमाच्चातः ॥ ९४२ ॥
एभ्यः तुम् प्रत्ययो भवति, अकारस्य चाकारो भवति । क्रमू पादविक्षेपे, क्रान्तुं - गमनम् । गम्लृ गतौ, गान्तुम् - पान्थः । क्षमौषि सहने, क्षान्तुम् भूमि: । तुमर्थश्च सर्वत्र
।। ९४२ ।।
गृ-पू-दुर्वि-धुर्विभ्यः क्विप् ।। ६४३ ॥
एभ्यः क्विप् प्रत्ययो भवति । गुश् शब्दे, गीः- वाक् । पृश् पालनपूरणयो:, पू:नगरी । दुवै धुर्वे हिंसायाम्, दुः- देहान्तरवयवः, धूः- शंकटाङ्गम्, आदिश्च ।। ६४३ ।।
वार्द्वारौ। ६४४ ॥
एतौ क्विप्रत्ययान्तो निपात्येते । वृणोतेवृ द्धिश्च । वाः पानीयम् । कर्मणि दश्च घात्वादिः । वृण्वन्ति तामिति द्वाः- द्वारम् । द्वे वरणे, इत्यस्य च णिगन्तस्य रूपम् ||६४४ |
प्रादतेरन् ॥ ६४५ ।।
पूर्वाद् अत सातत्यगमने, इत्यस्माद् अर् प्रत्ययो भवति । प्रातः-प्रभातम् । ९४५ । सोरतेंलुक् च ॥ ६४६ ॥
सुपूर्वात् ऋक् गतौ इत्यस्माद् अर् प्रत्ययो भवति, धातोश्च लुग् भवति । स्व:स्वर्गः ।। ९४६ ।
।। ६४८ ।।
पू-सन्यमिभ्यः पुनसनुतान्ताश्च ॥ ६४७ ॥
पूग्श पंवने, षण् भक्तौ, अम गतौ इत्येतेभ्यः अर् प्रत्ययो भवति, यथासंख्यं च पुन, सनुत्, अन्त् इत्यादेशा एषां भवन्ति । पुनः - भूयः । सनुतः - कालवाची । अन्त:- मध्ये | ε४७।
चतेरुर् ॥ ६४८ ॥
चतेग् याचमे इत्यस्माद् उर् प्रत्ययो भवति । चत्वारः- संख्या । चत्वारि, चतस्रः
दिवेडिंव् || ६४६ ॥
दिवच् क्रीडादौ, इत्यस्माद् द् िइव् प्रत्ययो भवति । द्यौ:- स्वर्गः, अन्तरिक्षं च । दिवो, दिवः ।। ९४९ ॥
!
विश-विपाशिभ्यां किप् ॥ ९५० ॥