Book Title: Siddha Hemchandra Shabdanushasan Bruhad Vrutti Part 02
Author(s): Vajrasenvijay
Publisher: Bherulal Kanaiyalal Religious Trust

View full book text
Previous | Next

Page 465
________________ ४५६ ] स्वोपज्ञोणादिगणसूत्रविवरणम् [ सूत्र-८१४-८२४ उरादेरूदेतौ च ॥ ८१४॥ उर्व हिंसायाम् , इत्यस्मादारुः प्रत्ययो भवति, आदेश्च ऊकार-एकार आदेशौ भवतः । ऊर्वत्यातिमिति ऊर्वारु:- कटुचिर्भटी । एर्वारु:-चारुचिर्भटी ।। ८१४ ।। कृपि-क्षुधि-पी-कुणिभ्यः कित् ॥ ८१५ ॥ एभ्यः किदारुः प्रत्ययो भवति । कृपौङ सामर्थ्य, कृपारु:-दयाशीलः । क्षुधंच बुभुक्षायाम् , क्षुधारु:-क्षुधमसहमानः, लत्वे कृपालुः, क्षुधालुः । पीङ च् पाने । पियारु:वृक्षः। कृणत् शब्दोपकरणयोः, कुणारु:-वनस्पतिः ।। ८१५ ।। श्यः शीत च ॥ ८१६॥ श्यैङ गतौ, इत्यस्माद् आरुः प्रत्ययो भवति । अस्य च शीत इत्यादेशो भवति । शीतारु:-शीतासह, लत्वे शीतालुः ।। ८१६ ।। तुम्बेरुरुः ॥ ८१७ ॥ तुबु अर्दने, इत्यस्मादुरुः प्रत्ययो भवति । तुम्बुरु:-गन्धर्वः, गन्धद्रव्यं च ।। ८१७ ।। कन्देः कुन्द् च ॥८१८ ॥ कदु रोदनाह्वानयोः, इत्यस्माद् उरुः प्रत्ययो भवत्यस्य च कुन्द् इत्यादेशो भवति । कुन्दुरुः-सल्लको निर्यासः ।। ८१८ ।। चमेरूरुः ॥ ८१३॥ चमू अदने, इत्यस्माद् ऊरु: प्रत्ययो भवति । चमूरु:-चित्रकः ।। ८१९ ।। . शीङो लुः ॥ ८२०॥ शीङक् स्वप्ने, इत्यस्माद् लुः प्रत्ययो भवति । शेलुः-श्लेष्मातकः ।। ८२० ।। पीङः कित् ॥ ८२१ ॥ पीङ च् पाने, इत्यस्मात् कित् लुः प्रत्ययो भवति । पीलुः-हस्ती, वृक्षश्च ।।८२१॥ लस्जीयि-शलेरालुः ॥ ८२२ ॥ एभ्य आलुः प्रत्ययो भवति । ओलस्जैति व्रोडे, लज्जालु:-लज्जनशीलः। ईर्घ्य इर्ष्यार्थः, ईष्यालुः-ईर्ष्याशीलः । शल गतौ, शलालुः-वृक्षावयवः ।। ८२२ ।। आपोऽप् च ॥ ८२३ ॥ आप्लट् व्याप्ती, इत्यस्मादालुः प्रत्ययो भवत्यस्य च अप् इत्यादेशो भवति । अपालु:-वायुः ।। ८२३ ॥ गृहलु-गुग्गुलु-कमण्डलवः ॥८२४ ॥ एते आलुप्रत्ययान्ता निपात्यन्ते । गूहतेह्रस्वश्च प्रत्ययादेः, गूहलु:-ऋषिः। गुंङ

Loading...

Page Navigation
1 ... 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512