Book Title: Siddha Hemchandra Shabdanushasan Bruhad Vrutti Part 02
Author(s): Vajrasenvijay
Publisher: Bherulal Kanaiyalal Religious Trust
View full book text ________________
सूत्र - ८६०-८६८ ]
स्वोपज्ञोणादिगणसूत्र विवरणम्
यज्ञः,
[ ४६१
जाया मिगः ॥ ८६० ॥
शब्दपूर्बाद् डुमिन्ट् प्रक्षेपणे, इत्यस्मात् तृः प्रत्ययो भवति । जायां - प्रजायां, मिन्वन्ति तमिति जामाता - दुहितृपतिः || ८६० ।।
आपोऽपू च ॥
८६१ ॥
आप्लृट् व्याप्तौ इत्यस्मात् तृः प्रत्ययो भवति । अप् चास्यादेशो भवति । अप्ताअग्निश्च ॥। ८६१ ॥
नमः प च । ८६२ ॥
मं प्रह्वत्वे, इत्यस्माद् तृः प्रत्ययो भवति, पश्चास्यान्तादेशो भवति । नप्तादुहितुः पुत्रस्य वा पुत्रः ।। ८६२ ।।
हु पुग्-गोनी - प्रस्तु- प्रति प्रतिप्रस्थाभ्य ऋत्विज ॥ ८६३ ॥
एभ्य ऋत्विज्यभिधेये तृः प्रत्ययो भवति । हुंक् दानादनयो:, होता । पूग्श् पवने, पोता । मैं शब्दे, जींग-प्रापणे उत्पूर्वः, उद्गाता, उन्नेता । ष्टुंग्क् स्तुतौ प्रपूर्वः प्रस्तोता । हृग् हरणे प्रतिपूर्वः, प्रतिहर्ता । ष्ठां गतिनिवृत्ती, प्रतिप्रपूर्वः प्रतिप्रस्थाता । ते ऋत्विजः ।। ८६३ ॥
नियः षादिः ॥ ८६४ ॥
णीं प्रापणे, इत्यस्मात् षकारादिः तृः प्रत्ययो भवति । ऋत्विज्यभिधेये । नेष्टाऋत्विक् ।। ८६४ ।।
त्वष्टृ-क्षत्तृ-दुहित्रादयः ॥ ८६५ ॥
एते तृप्रत्ययान्ता निपात्यन्ते । त्विषेरितोऽच्च । त्वष्टा देववर्धकिः, प्रजापतिः, आदित्यश्च । क्षद खदने सौत्रः, क्षत्ता- नियुक्तः, अविनीतः, दौवारिक:, मुसलः, पारशवः, रुद्रः, सारथिश्च । दुहेरिट् किच्च दुहिता तनया । आदिग्रहणादन्येऽपि । । ८६५ ।। रातेर्डेः
डः ॥ ८६६ ॥
क् दाने, इत्यस्माद् डिद् ऐः प्रत्ययो भवति । राः द्रव्यम् । रायौ, रायः ॥ ८६६ । द्यु-गमिभ्यां डोः ॥ ८६७ ॥
आभ्यां डि ओः प्रत्ययो भवति । धुंक् अभिगमे, द्यौ:- स्वर्गः, अन्तरिक्षं च । गम्लृ गतौ, गौः पृथिव्यादिः । ८६७ ।।
ग्ला-नुदिभ्यां डौः ॥ ८६८ ॥
आभ्यां : प्रत्ययो भवति । ग्लें हर्षक्षये, ग्लौ:- चन्द्रमाः, व्याधितः, शरीरग्लानिश्च । णुदंत् प्रेरणे, नौ:- जलतरणम् ॥ ८६८ ।।
Loading... Page Navigation 1 ... 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512