Book Title: Siddha Hemchandra Shabdanushasan Bruhad Vrutti Part 02
Author(s): Vajrasenvijay
Publisher: Bherulal Kanaiyalal Religious Trust

View full book text
Previous | Next

Page 477
________________ ४६८ ] स्वोपज्ञोणादिगणसूत्र विवरणम् [ सूत्र- ९१३-९२० बृहेऽच ॥ १३ ॥ बृहु शब्दे, इत्यस्माद् मन् प्रत्ययो भवति, नकारस्य च अकारो भवति । ब्रह्म-परं तेजः, अध्ययनं, मोक्षः, बृहत्वादात्मा । ब्रह्मा भगवान् ।। ९१३ ।। व्येग एदोतौ च वा ॥ ६१४॥ संवरणे, इत्यस्माद् मन् प्रत्ययो भवति, एदोतौ चान्तादेशो वा भवतः । व्येमवस्त्रम्, व्येमा-संसारः, कुविन्दभाण्डं च । व्योम - नभः । पक्षे व्याम - न्यग्रोधाख्यं प्रमाणम् ॥ ९१४ ॥ स्यतेरी च वा ॥ १५ ॥ षोंच् अन्तकर्मणि, इत्यस्माद् मन् प्रत्ययो ईकारश्चान्तादेशो वा भवति । सीमाअघाटः । पक्षे साम- प्रियवचनं, वामदेव्यादि च ।। १५ ।। सात्मन्नात्मन् -वेमन् - रोमन् - क्लोमन् - ललामन् - नामन् - पाप्मन् - पक्ष्मन् - यक्ष्मन्निति । ६१६ । एते मन्प्रत्ययान्ता निपात्यन्ते । स्यतेस्तोऽन्तश्च । सात्म अत्यन्ताभ्यस्तं प्रकृतिभूतम्, अन्तकर्म च, अते:, दीर्घश्च, आत्मा - जीवः । वेग आत्वाभावश्च वेम तन्तुवायोपकरणम् । रुहेलुं क् च, रोम - तनूरुहम् । लत्वे लोम-तदेव । क्लमेरोच्च क्लोम - शरीरान्तरवयवः | लातेद्वित्वं च ललाम - भूषणादि । नमेरा च, नाम-संज्ञा, कीर्तिश्च । पातयतेस्तः प् च, पाप्मा-पापं रक्षश्च । पञ्चेः कः षोऽन्ती नलोपश्च पक्ष्म- अक्ष्यादिलोम । यस्यतेः यक्षिणो वा, यक्ष्मा - रोगः । इतिकरणात् तोक्म रुक्म शुष्मादयो भवन्ति ।। ९१६ ॥ - जनिभ्यामिमन् ॥ ६१७ ॥ आभ्याम् इमनुप्रत्ययो भवति । हृग हरणे, हरिमा पापविशेष:, मृत्युः, वायुश्च । जनैचि प्रादुर्भावे, जनिमा-धर्मविशेषः, संसारश्च ।। ११७ ।। ३ 17 WAPSEC सृ-हृ-भृ-धृ-स्तु-सभ्य-ईमन् ॥ ६१८ ॥ एभ्य ईमनुप्रत्ययो भवति । सृ गतौ, सरीमा - कालः । हृग् हरणे, हरोमा-मातरिश्वा । टुडुभृ ग्क् पोषणे च भरीमा क्षमी, राजा, कुटुम्बं च । धृग् धारणे, घरीमा धर्मः । स्तृग्श् आच्छादने, स्तरीमा - प्रावारः । षूत् प्रेरणे, सवीमा गर्भः, प्रसूतिश्च ॥ ११८ ॥ 1 1 गमेरिन् ॥ ६१६ ॥ गम्लृ गतौ इत्यस्माद् इन् प्रत्ययो भवति । गमिष्यतीति गमी - जिगमिषुः । ९१९ । आङश्च णित् ॥ २० ॥ आङ पूर्वात् केवलाच्च गमेणिद् इन् प्रत्ययो भवति । आगामिष्यतीति आगामीप्रोषितादिः । गमिष्यतीति गामी प्रस्थितादिः ।। ६२० ।।

Loading...

Page Navigation
1 ... 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512