________________
४६८ ]
स्वोपज्ञोणादिगणसूत्र विवरणम्
[ सूत्र- ९१३-९२०
बृहेऽच ॥ १३ ॥
बृहु शब्दे, इत्यस्माद् मन् प्रत्ययो भवति, नकारस्य च अकारो भवति । ब्रह्म-परं तेजः, अध्ययनं, मोक्षः, बृहत्वादात्मा । ब्रह्मा भगवान् ।। ९१३ ।।
व्येग एदोतौ च वा ॥ ६१४॥
संवरणे, इत्यस्माद् मन् प्रत्ययो भवति, एदोतौ चान्तादेशो वा भवतः । व्येमवस्त्रम्, व्येमा-संसारः, कुविन्दभाण्डं च । व्योम - नभः । पक्षे व्याम - न्यग्रोधाख्यं प्रमाणम् ॥ ९१४ ॥
स्यतेरी च वा ॥ १५ ॥
षोंच् अन्तकर्मणि, इत्यस्माद् मन् प्रत्ययो ईकारश्चान्तादेशो वा भवति । सीमाअघाटः । पक्षे साम- प्रियवचनं, वामदेव्यादि च ।। १५ ।।
सात्मन्नात्मन् -वेमन् - रोमन् - क्लोमन् - ललामन् - नामन् - पाप्मन् - पक्ष्मन् - यक्ष्मन्निति । ६१६ । एते मन्प्रत्ययान्ता निपात्यन्ते । स्यतेस्तोऽन्तश्च । सात्म अत्यन्ताभ्यस्तं प्रकृतिभूतम्, अन्तकर्म च, अते:, दीर्घश्च, आत्मा - जीवः । वेग आत्वाभावश्च वेम तन्तुवायोपकरणम् । रुहेलुं क् च, रोम - तनूरुहम् । लत्वे लोम-तदेव । क्लमेरोच्च क्लोम - शरीरान्तरवयवः | लातेद्वित्वं च ललाम - भूषणादि । नमेरा च, नाम-संज्ञा, कीर्तिश्च । पातयतेस्तः प् च, पाप्मा-पापं रक्षश्च । पञ्चेः कः षोऽन्ती नलोपश्च पक्ष्म- अक्ष्यादिलोम । यस्यतेः यक्षिणो वा, यक्ष्मा - रोगः । इतिकरणात् तोक्म रुक्म शुष्मादयो भवन्ति ।। ९१६ ॥
- जनिभ्यामिमन् ॥ ६१७ ॥
आभ्याम् इमनुप्रत्ययो भवति । हृग हरणे, हरिमा पापविशेष:, मृत्युः, वायुश्च । जनैचि प्रादुर्भावे, जनिमा-धर्मविशेषः, संसारश्च ।। ११७ ।। ३
17
WAPSEC
सृ-हृ-भृ-धृ-स्तु-सभ्य-ईमन् ॥ ६१८ ॥
एभ्य ईमनुप्रत्ययो भवति । सृ गतौ, सरीमा - कालः । हृग् हरणे, हरोमा-मातरिश्वा । टुडुभृ ग्क् पोषणे च भरीमा क्षमी, राजा, कुटुम्बं च । धृग् धारणे, घरीमा धर्मः । स्तृग्श् आच्छादने, स्तरीमा - प्रावारः । षूत् प्रेरणे, सवीमा गर्भः, प्रसूतिश्च ॥ ११८ ॥
1
1
गमेरिन् ॥ ६१६ ॥
गम्लृ गतौ इत्यस्माद् इन् प्रत्ययो भवति । गमिष्यतीति गमी - जिगमिषुः । ९१९ ।
आङश्च णित् ॥ २० ॥
आङ पूर्वात् केवलाच्च गमेणिद् इन् प्रत्ययो भवति । आगामिष्यतीति आगामीप्रोषितादिः । गमिष्यतीति गामी प्रस्थितादिः ।। ६२० ।।