________________
सूत्र-९२१-९३० ]
स्वोपज्ञोगादिगणसूत्रविवरणम्
सुवः ।। ६२१॥
ड्डीच् प्राणिप्रसवे, इत्यस्माद् णिद् इन् प्रत्ययो भवति । आसावी, आसविष्यमाणः, जनिष्यमाण इत्यर्थः ।। ६२१ ॥
भुवो वा ॥ ६२२ ॥
भू सत्तायाम् , इत्यास्माद् इन् प्रत्ययो भवति, स च णिद्वा भवति । भविष्यतीति, भावी-कर्मविपाकादिः । भवी-भविष्यन् ।। ६२२ ॥
प्र-प्रतेर्या-बुधिभ्याम् ॥६२३ ॥
प्रपूर्वात् प्रतिपूर्वाच्च यांक प्रापणे, बुधिं, मनिंच ज्ञाने, इत्यस्माच्च णिद् इन् प्रत्ययो भवति । प्रयास्यतीति-प्रयायी, प्रतियास्यतीति-प्रतियायी, प्रभोत्स्यत इति प्रबोधी, प्रतिबोधी-बालादिः ॥ २३ ॥
प्रात् स्थः॥ १२४॥
प्रपूर्वात् ष्ठां गतिनिवृत्ती, इत्यस्माद् णिद् इन् प्रत्ययो भवति । प्रस्थास्यते इति प्रस्थायी-गन्तुमनाः ।। ९२४ ।।
परमात कित् ॥ ६२५ ॥
परमपूर्वात् तिष्ठतेः किद् इन् प्रत्ययो भवति । परमे पदे तिष्ठतीति परमेष्ठीअहंदादिः । भीरुष्ठानादित्वात् षत्वम् , सप्तम्या अलुप् च ॥ ९२५ ॥
पथि-मन्थिभ्याम् ॥ ६२६ ।।
आभ्यां किद् इन् प्रत्ययो भवति । पथे गतौ, पन्थाः-मार्गः, पन्थानौ, पन्थानः, पथिप्रियः । मन्थश् विलोडने, मन्थाः-क्षुब्धः, वायुः, वश्च । मन्थानी, मन्थानः, मथिप्रियः।। ६२६ ।। ... ...
होर्मिन् ॥ २७ ॥ हुंक् दानादनयोः, इत्यस्माद् मिन् प्रत्ययो भवति । होमी-ऋत्विक् , घृतं च ।९२७॥ अतभुक्षिनक ।। १२८॥
ऋक् गतो, इत्यस्माद् भुक्षिनक् प्रत्ययो भवति । ऋभुक्षा-इन्द्रः । ऋभुक्षाणौ, ऋभुक्षाणः॥ ६२८॥
अदेखिन् ॥ २६ ॥ अदंक भक्षणे, इत्यस्मात् त्रिन् प्रत्ययो भवति । अत्रिः ऋषिः ॥ ९२९ ।। पतेरत्रिन् । ६३०॥ पत्ल गती, इत्यस्माद् अत्रिन् प्रत्ययो भवति । पतत्री पक्षी ।। ६३०॥