________________
सूत्र- ९०८-९१२ ]
स्वपोज्ञोणादिगणसूत्र विवरणम्
[ ४६७
या - प्योध पी च ॥ ६०८ ॥
चिन्तयाम्, प्s वृद्धी, इत्याभ्यां क्वनिप् प्रत्ययो यथासंख्यं च घी पी इत्येतावादेशौ भवतः । ध्यायतीति, घीवा-मनीषी, निषादः, व्याधिः, मत्स्यश्च । प्यायतेः, पीवापीनः ।। ९०८ ।।
अतेर्ध च ॥ ६०६ ॥
अत सातत्यगमने, इत्यस्मात् क्वनिप् प्रत्ययो भवति, घश्चान्तादेशो भवति । अध्वा मार्गः ।। ९०९ ।।
प्रात्सदि-रीरिणस्तोऽन्तश्च ॥ ६१० ॥
पूर्वेभ्यः सद्यादिभ्यः क्वनिप् प्रत्ययो भवति, तोऽन्तश्च भवति । षद् विशरणगत्यवसादनेषु, प्रसत्त्वा मूढः, वायुश्च । प्रसत्त्वरी माता, प्रतिपत्तिश्च । श् गति-रेषणयो:, प्ररीत्वा वायुः । प्ररीत्वरी - स्त्रीविशेषः । ईरिक् गति कम्पनयोः, प्रेर्वा-सागरः, वायुश्च । प्रेत्वंरी-नगरी । इंण्क् गतौ प्रेत्वरी नगरीत्याहुः ॥ ६१० ॥
मन् ॥ ६११ ॥
सर्वधातुभ्यो बहुलं मन् प्रत्ययो भवति । डुकुलंग् करणे, कर्म - व्यापारः । वृग्ट् वरणे, वर्म - कवचम् । वृतूङ वर्तने, वत्मं पन्थाः । चर भक्षणे च चर्म- अजिनम् । भस भर्त्सनदीप्त्योः सौत्रः, भसितं तदिति, भस्म - भूतिः । जनैचि प्रादुर्भावे, जन्म-उत्पत्तिः । शृश् हिंसायाम्, शर्म - सुखम् । वसवोऽस्य दुरितं शीर्यासुरिति वसुशर्मा, एवं हरिशर्मा । मृत् प्राणत्यागे, मर्म- जीवप्रदेशप्रचयस्थानम्, यत्र जायमाना वेदना महती जायते । नृश् नये, नर्म-परिहासकथा । श्लिषंच् आलिङ्गने श्लेष्मा - कफः । ऊष रुजायाम्, ऊष्मा - तापः । टुडु ग्क् पोषणेच, भर्म - सुवर्णम् । यांक प्रापणे, यामा- रथः । वां गति - गन्धनयो:, वामा-करचरणह्रस्वः । पांक् रक्षणे, पामा - कच्छ्रः । वृषू, सेचने, वर्ष्म शरीरम् | बदलू विशरणगत्यवसादनेषु, सद्द्म- गृहम् । विशंत् प्रवेशने, वेश्म गृहम् । हिंदू गति वृद्धयोः, हेमसुवर्णम् । छदण् अपवारणे, छद्म-माया । दीङ च क्षये, देङ पालने वा, दाम-रज्जुः, माता च । दुधांग्क् धारणे च, धाम-स्थानं, तेजश्च । ष्ठां गतिनिवृत्तौ स्थाम-बलम् | बुंग्ट् अभिषवे, सोम:-यक्षः, पयः, रसः, चन्द्रमाश्च । अशौटि व्याप्ती, अश्मा - पाषाणः । लक्षीण् दर्शनाङ्कनयो:, लक्ष्म चिह्नम् । अयि गतौ अय्म-संग्रामः । तक् हसने, तक्मा - रतिः, आतपः, दीपश्च । हुं दानादनयोः, होम-हव्यद्रव्यम्, अग्निहोत्रशाला च । धृग् धारणे, धर्मपुण्यम् । विपूर्वात् विधर्मा अहितः, वायुः, व्यभिचारश्च । ध्यें चिन्तायाम् । ध्यामध्यानम् ।। ε११ ।।
कुष्युषि - सृपिभ्यः कित् ॥ ६१२ ॥
एभ्यः कित् मन् प्रत्ययो भवति । कुषश् निष्कर्षे, कुष्म-शल्यम् । उषू दाहे, उष्मा
1
दाहः । सृ गतौ सृमा - सर्पः, शिशुः, यतिश्च ।। ९१२ ।।
1