Book Title: Siddha Hemchandra Shabdanushasan Bruhad Vrutti Part 02
Author(s): Vajrasenvijay
Publisher: Bherulal Kanaiyalal Religious Trust

View full book text
Previous | Next

Page 476
________________ सूत्र- ९०८-९१२ ] स्वपोज्ञोणादिगणसूत्र विवरणम् [ ४६७ या - प्योध पी च ॥ ६०८ ॥ चिन्तयाम्, प्s वृद्धी, इत्याभ्यां क्वनिप् प्रत्ययो यथासंख्यं च घी पी इत्येतावादेशौ भवतः । ध्यायतीति, घीवा-मनीषी, निषादः, व्याधिः, मत्स्यश्च । प्यायतेः, पीवापीनः ।। ९०८ ।। अतेर्ध च ॥ ६०६ ॥ अत सातत्यगमने, इत्यस्मात् क्वनिप् प्रत्ययो भवति, घश्चान्तादेशो भवति । अध्वा मार्गः ।। ९०९ ।। प्रात्सदि-रीरिणस्तोऽन्तश्च ॥ ६१० ॥ पूर्वेभ्यः सद्यादिभ्यः क्वनिप् प्रत्ययो भवति, तोऽन्तश्च भवति । षद् विशरणगत्यवसादनेषु, प्रसत्त्वा मूढः, वायुश्च । प्रसत्त्वरी माता, प्रतिपत्तिश्च । श् गति-रेषणयो:, प्ररीत्वा वायुः । प्ररीत्वरी - स्त्रीविशेषः । ईरिक् गति कम्पनयोः, प्रेर्वा-सागरः, वायुश्च । प्रेत्वंरी-नगरी । इंण्क् गतौ प्रेत्वरी नगरीत्याहुः ॥ ६१० ॥ मन् ॥ ६११ ॥ सर्वधातुभ्यो बहुलं मन् प्रत्ययो भवति । डुकुलंग् करणे, कर्म - व्यापारः । वृग्ट् वरणे, वर्म - कवचम् । वृतूङ वर्तने, वत्मं पन्थाः । चर भक्षणे च चर्म- अजिनम् । भस भर्त्सनदीप्त्योः सौत्रः, भसितं तदिति, भस्म - भूतिः । जनैचि प्रादुर्भावे, जन्म-उत्पत्तिः । शृश् हिंसायाम्, शर्म - सुखम् । वसवोऽस्य दुरितं शीर्यासुरिति वसुशर्मा, एवं हरिशर्मा । मृत् प्राणत्यागे, मर्म- जीवप्रदेशप्रचयस्थानम्, यत्र जायमाना वेदना महती जायते । नृश् नये, नर्म-परिहासकथा । श्लिषंच् आलिङ्गने श्लेष्मा - कफः । ऊष रुजायाम्, ऊष्मा - तापः । टुडु ग्क् पोषणेच, भर्म - सुवर्णम् । यांक प्रापणे, यामा- रथः । वां गति - गन्धनयो:, वामा-करचरणह्रस्वः । पांक् रक्षणे, पामा - कच्छ्रः । वृषू, सेचने, वर्ष्म शरीरम् | बदलू विशरणगत्यवसादनेषु, सद्द्म- गृहम् । विशंत् प्रवेशने, वेश्म गृहम् । हिंदू गति वृद्धयोः, हेमसुवर्णम् । छदण् अपवारणे, छद्म-माया । दीङ च क्षये, देङ पालने वा, दाम-रज्जुः, माता च । दुधांग्क् धारणे च, धाम-स्थानं, तेजश्च । ष्ठां गतिनिवृत्तौ स्थाम-बलम् | बुंग्ट् अभिषवे, सोम:-यक्षः, पयः, रसः, चन्द्रमाश्च । अशौटि व्याप्ती, अश्मा - पाषाणः । लक्षीण् दर्शनाङ्कनयो:, लक्ष्म चिह्नम् । अयि गतौ अय्म-संग्रामः । तक् हसने, तक्मा - रतिः, आतपः, दीपश्च । हुं दानादनयोः, होम-हव्यद्रव्यम्, अग्निहोत्रशाला च । धृग् धारणे, धर्मपुण्यम् । विपूर्वात् विधर्मा अहितः, वायुः, व्यभिचारश्च । ध्यें चिन्तायाम् । ध्यामध्यानम् ।। ε११ ।। कुष्युषि - सृपिभ्यः कित् ॥ ६१२ ॥ एभ्यः कित् मन् प्रत्ययो भवति । कुषश् निष्कर्षे, कुष्म-शल्यम् । उषू दाहे, उष्मा 1 दाहः । सृ गतौ सृमा - सर्पः, शिशुः, यतिश्च ।। ९१२ ।। 1

Loading...

Page Navigation
1 ... 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512