________________
४५६ ]
स्वोपज्ञोणादिगणसूत्रविवरणम्
[ सूत्र-८१४-८२४
उरादेरूदेतौ च ॥ ८१४॥
उर्व हिंसायाम् , इत्यस्मादारुः प्रत्ययो भवति, आदेश्च ऊकार-एकार आदेशौ भवतः । ऊर्वत्यातिमिति ऊर्वारु:- कटुचिर्भटी । एर्वारु:-चारुचिर्भटी ।। ८१४ ।।
कृपि-क्षुधि-पी-कुणिभ्यः कित् ॥ ८१५ ॥
एभ्यः किदारुः प्रत्ययो भवति । कृपौङ सामर्थ्य, कृपारु:-दयाशीलः । क्षुधंच बुभुक्षायाम् , क्षुधारु:-क्षुधमसहमानः, लत्वे कृपालुः, क्षुधालुः । पीङ च् पाने । पियारु:वृक्षः। कृणत् शब्दोपकरणयोः, कुणारु:-वनस्पतिः ।। ८१५ ।।
श्यः शीत च ॥ ८१६॥
श्यैङ गतौ, इत्यस्माद् आरुः प्रत्ययो भवति । अस्य च शीत इत्यादेशो भवति । शीतारु:-शीतासह, लत्वे शीतालुः ।। ८१६ ।।
तुम्बेरुरुः ॥ ८१७ ॥ तुबु अर्दने, इत्यस्मादुरुः प्रत्ययो भवति । तुम्बुरु:-गन्धर्वः, गन्धद्रव्यं च ।। ८१७ ।। कन्देः कुन्द् च ॥८१८ ॥
कदु रोदनाह्वानयोः, इत्यस्माद् उरुः प्रत्ययो भवत्यस्य च कुन्द् इत्यादेशो भवति । कुन्दुरुः-सल्लको निर्यासः ।। ८१८ ।।
चमेरूरुः ॥ ८१३॥ चमू अदने, इत्यस्माद् ऊरु: प्रत्ययो भवति । चमूरु:-चित्रकः ।। ८१९ ।। . शीङो लुः ॥ ८२०॥ शीङक् स्वप्ने, इत्यस्माद् लुः प्रत्ययो भवति । शेलुः-श्लेष्मातकः ।। ८२० ।। पीङः कित् ॥ ८२१ ॥ पीङ च् पाने, इत्यस्मात् कित् लुः प्रत्ययो भवति । पीलुः-हस्ती, वृक्षश्च ।।८२१॥ लस्जीयि-शलेरालुः ॥ ८२२ ॥
एभ्य आलुः प्रत्ययो भवति । ओलस्जैति व्रोडे, लज्जालु:-लज्जनशीलः। ईर्घ्य इर्ष्यार्थः, ईष्यालुः-ईर्ष्याशीलः । शल गतौ, शलालुः-वृक्षावयवः ।। ८२२ ।।
आपोऽप् च ॥ ८२३ ॥
आप्लट् व्याप्ती, इत्यस्मादालुः प्रत्ययो भवत्यस्य च अप् इत्यादेशो भवति । अपालु:-वायुः ।। ८२३ ॥
गृहलु-गुग्गुलु-कमण्डलवः ॥८२४ ॥ एते आलुप्रत्ययान्ता निपात्यन्ते । गूहतेह्रस्वश्च प्रत्ययादेः, गूहलु:-ऋषिः। गुंङ