Book Title: Siddha Hemchandra Shabdanushasan Bruhad Vrutti Part 02
Author(s): Vajrasenvijay
Publisher: Bherulal Kanaiyalal Religious Trust

View full book text
Previous | Next

Page 461
________________ ४५२ ] स्वोपज्ञोणादिगणसूत्रविवरणम् [सूत्र-७७९-७८८ वहि-महि-गुह्य धिम्योऽतुः ॥ ७७६ ॥ एभ्योऽतुः प्रत्ययो भवति । वहीं प्रापणे, वहतुः विवाहः, अनड्वान् , अग्निः, कालश्च । मह पूजायाम् , महतुः-अग्निः । गुहौग संवरणे, गृहतुः-भूमिः । एधि वृद्धी, एधतुः-लक्ष्मीः , पुरुषः, अग्निश्च ।। ७७९ ॥ कृ-लाभ्यां कित् ।। ७८० ॥ ___ आभ्यां किद् अतुः प्रत्ययो भवति । डुकुग् करणे, ऋतुः-यज्ञः। लांक आदाने, लतुः-पाशः ॥ ७८० ॥ तनेर्यतुः ॥ ७८१ ॥ तनूयी विस्तारे, इत्यस्माद् यतुः प्रत्ययो भवति । तन्यतुः-विस्तारः, वायुः, पर्वतः, सूर्यश्च ।। ७८१॥ जीवेरातुः ॥ ७८२॥ जीव प्राणधारणे, इत्यस्मादातुः प्रत्ययो भवति । जीवातुः-जीवनम् , औषधम् , अन्नम् , उदकं, द्रव्यं च ।। ७८२ ॥ यमेदु क् ।। ७८३॥ यमू उपरमे, इत्यस्मात् किद् दुः प्रत्ययो भवति । यदु:-क्षत्रियः ।। ७८३ ।। शीको धुक् ।। ७८४ ॥ शोङक् स्वपने, इत्यस्मात् किद् धुः प्रत्ययो भवति । शीधु-मद्यविशेषः ।। ७८४ ॥ धूगो धुन च ॥ ७८५ ॥ धूग्श् कम्पने, इत्यस्माद् धुक् प्रत्ययो भवत्यस्य च धुन् इत्यादेशो भवति । धुन्धुःदानवः ।। ७८५॥ दा-भाभ्यां नुः ॥ ७८६ ॥ आभ्यां नुः प्रत्ययो भवति । डुदांग्क दाने, दानु:-गन्ता, यजमानः, वायुः, आदित्यः, दक्षिणार्थं च धनम् । भाक् दीप्ती, भानुः-सूर्यः, रश्मिश्च । चित्रभानु -अग्निः । स्वर्भानुःराहुः । विश्वभानुः-आदित्यः ।। ७८६ ।। धेः शित् ।। ७८७ ॥ टधे पाने, इत्यस्माद् नुः प्रत्ययो भवति, स च शिद् भवति, शित्त्वादाद् 'आत संध्यक्षरस्य' इति अकारो न भवति । धेनुः-अभिनवप्रसवा गवादिः ।। ७८७ ॥ . सूङः कित् ॥ ७८८ ॥ षूङौक् प्राणिगर्भविमोचने, इत्यस्मात् किद् नुः प्रत्ययो भवति । सुनुः पुत्रः ७८८॥

Loading...

Page Navigation
1 ... 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512