________________
४५२ ]
स्वोपज्ञोणादिगणसूत्रविवरणम्
[सूत्र-७७९-७८८
वहि-महि-गुह्य धिम्योऽतुः ॥ ७७६ ॥
एभ्योऽतुः प्रत्ययो भवति । वहीं प्रापणे, वहतुः विवाहः, अनड्वान् , अग्निः, कालश्च । मह पूजायाम् , महतुः-अग्निः । गुहौग संवरणे, गृहतुः-भूमिः । एधि वृद्धी, एधतुः-लक्ष्मीः , पुरुषः, अग्निश्च ।। ७७९ ॥
कृ-लाभ्यां कित् ।। ७८० ॥ ___ आभ्यां किद् अतुः प्रत्ययो भवति । डुकुग् करणे, ऋतुः-यज्ञः। लांक आदाने, लतुः-पाशः ॥ ७८० ॥
तनेर्यतुः ॥ ७८१ ॥
तनूयी विस्तारे, इत्यस्माद् यतुः प्रत्ययो भवति । तन्यतुः-विस्तारः, वायुः, पर्वतः, सूर्यश्च ।। ७८१॥
जीवेरातुः ॥ ७८२॥
जीव प्राणधारणे, इत्यस्मादातुः प्रत्ययो भवति । जीवातुः-जीवनम् , औषधम् , अन्नम् , उदकं, द्रव्यं च ।। ७८२ ॥
यमेदु क् ।। ७८३॥ यमू उपरमे, इत्यस्मात् किद् दुः प्रत्ययो भवति । यदु:-क्षत्रियः ।। ७८३ ।। शीको धुक् ।। ७८४ ॥ शोङक् स्वपने, इत्यस्मात् किद् धुः प्रत्ययो भवति । शीधु-मद्यविशेषः ।। ७८४ ॥ धूगो धुन च ॥ ७८५ ॥
धूग्श् कम्पने, इत्यस्माद् धुक् प्रत्ययो भवत्यस्य च धुन् इत्यादेशो भवति । धुन्धुःदानवः ।। ७८५॥
दा-भाभ्यां नुः ॥ ७८६ ॥
आभ्यां नुः प्रत्ययो भवति । डुदांग्क दाने, दानु:-गन्ता, यजमानः, वायुः, आदित्यः, दक्षिणार्थं च धनम् । भाक् दीप्ती, भानुः-सूर्यः, रश्मिश्च । चित्रभानु -अग्निः । स्वर्भानुःराहुः । विश्वभानुः-आदित्यः ।। ७८६ ।।
धेः शित् ।। ७८७ ॥
टधे पाने, इत्यस्माद् नुः प्रत्ययो भवति, स च शिद् भवति, शित्त्वादाद् 'आत संध्यक्षरस्य' इति अकारो न भवति । धेनुः-अभिनवप्रसवा गवादिः ।। ७८७ ॥ .
सूङः कित् ॥ ७८८ ॥ षूङौक् प्राणिगर्भविमोचने, इत्यस्मात् किद् नुः प्रत्ययो भवति । सुनुः पुत्रः ७८८॥