________________
सूत्र-७७३-७७८ ]
स्वपोज्ञोगादिगणसूत्रविवरणम्
[ ४५१
कृ-सि-कम्यमि--गमि-तनि-मनि-जन्यसि-मसि-सच्यवि-भा-धा-गा-ग्ला-म्लाहनि-हा-या-हि-क्रुशि-पूभ्यस्तुन् । ७७३ ॥
एभ्यः तुन्प्रत्ययो भवति । डुकृग् करणे, कर्तु:-कर्मकरः । पिंग्ट् बन्धने, सेतुःनदीसंक्रमः । कमूङ कान्तौ, कन्तु:-कन्दर्पः, कामी, मनः, कुसूलश्च । अम गती, अन्तुःरक्षिता, लक्षणं च । गम्लु गतो, गन्तुः-पथिकः, आगन्तुः अवास्तव्यो जनः। तनूयी विस्तारे, तन्तुः-सूत्रम् । मनिच ज्ञाने, मन्तु:-वैमनस्यम् , प्रियंवदः, मानश्च । जनैचि प्रादु
र्भावे, जन्तुः प्राणी। असक भुवि, अस्तुः-अस्तिभावः । बाहुलकाद् भूभावाभावः। मसैच परिणामे, मस्तुः-दधिमूलवारि । पचि सेचने, सक्तुः-यवविकारः । अव रक्षणादौ, ओतुःबिडालः। भांक दीप्तौ, भातुः-दीप्तिमान् , शरीरावयवः, अग्निः, विद्वांश्च । डुधांग्क् धारणे च, धातुः-लोहादिः, रसादिः, शब्दप्रकृतिश्च । - शब्दे, गातुः-गायनः, उद्गाता च । ग्लै हर्षक्षये, ग्लातुः-सरुजः । म्लें गात्रविनामे, म्लातुः-दोनः। हनं हिंसागत्योः, हन्तुः-आयुधं, हिमश्च । ओहांक त्यागे, हातुः-मृत्युः, मार्गश्च । यांक प्रापणे, यातु:-पाप्मा जनः, राक्षसश्च । हिंट गतिवृद्ध्योः हेतु:-कारणम् । क्रुशं आह्वान-रोदनयोः, क्रोष्टाशृगालः । पूग्श् पंवने । पोतुः पविता । नित्करणम् 'क्रुशस्तुनस्तृच पुसि' इत्यत्र विशेषणार्थम् ।। ७७३ ।।
वसेर्णिद्वा ।। ७७४ ॥
वंस निवासे, इत्यस्मात् तुन् प्रत्ययो भवति, स च णिद्वा भवति । वास्तु-गृहं, गृहभूमिश्च । वस्तु सत् , निवेशभूमिश्च ।। ७७४ ।।
प: पीप्यौ च वा ॥ ७७५॥
पां पाने, इत्यस्मात् तुन्प्रत्ययो भवति । अस्य च पी पि इत्यादेशौ वा भवतः । पीतु:-आदित्यः, चन्द्रः, हस्ती, कालः, चक्षुः, बालघृतपानभाजनं च। पितुः-प्रजापतिः, आहारश्च । पातुः-रक्षिता, ब्रह्मा च ।। ७७५ ।।
आपोऽप च ।। ७७६ ॥
आप्लृट् व्याप्ती, इत्यस्मात् तुन्प्रत्ययो भवत्यस्य च अप् इत्यादेशो भवति । अस्तु:देवताविशेषः, कालः, याजकः, यज्ञयोनिश्च ।। ७७६ ।।
अज्यतः कित् ॥ ७७७ ॥
आभ्यां कित् तुन्प्रत्ययो भवति । अजौप् व्यक्त्यादिषु । अक्तुः-इन्द्रः, विष्णुः, रात्रिश्च । ऋक् गतौ, ऋतु:-हेमन्तादिः, स्त्रीरजः, तत्कालश्च ॥ ७७७ ।।
चायः के च ॥ ७७८ ।।
चायग् पूजा-निशामनयोः, इत्यस्मात् तुन्प्रत्ययः भवत्यस्य च के इत्यादेशो भवति । केतुः-ध्वजः, ग्रहश्च ।। ७७८ ।।
।