________________
४५० ]
स्वोपज्ञोणादिगणसूत्रविवरणम्
[सूत्र-७६५-७७२
आभ्यमिष्ठुः प्रत्ययो भवति । अञ्जौप व्यक्त्यादौ, अञ्जिष्ठ:-भानुः, अग्निश्च । अव रक्षणादौ, अविष्ठः-अश्वः, होता च ॥ ७६४ ॥
तमि-मनि-कणिभ्यो दुः॥७६५ ॥
एभ्यो डुः प्रत्ययो भवति । तनूयी विस्तारे, तण्डुः-प्रथमः । मनिच् ज्ञाने, मण्डुःऋषिः । कण शब्दे, कण्डुः-वेदनाविशेषः ।। ७६५ ॥
पनेर्दीर्घश्च ॥ ७६६ ॥
पनि स्तुती, इत्यस्माद् डुः प्रत्ययो भवति, दीर्घश्च भवति । पाण्डुः-वर्णः, क्षत्रियश्च ।। ७६६ ॥
पलि-मृभ्यामाण्डुकण्डुकौ ॥ ७६७ ॥
आभ्यां यथासंख्यमाण्डुः कण्डुक् इति प्रत्ययौ भवतः । पल गतो, पलाण्डुः-लशुनभेदः । मृत प्राणत्यागे मृकण्डुः-ऋषिः ।। ७६७ ।।
अजि-स्था-वृ-रीभ्यो णुः ॥ ७६८ ॥
एभ्यो णुः प्रत्ययो भवति । अज क्षेपणे च, वेणुः-वंशः । ष्ठां गतिनिवृत्ती, स्थाणुःशिवः, ऊवं च दारु । वृन्ट् वरणे, वणु:-नदः, जनपदश्च । रीश् गतिरेषणयोः, रेणुःधूलिः ।। ७६८॥
विषेः कित् ॥ ७६६ ॥ विष्लु की व्याप्ती, इत्यस्मात् किद् णुः प्रत्ययो भवति । विष्णुः हरिः ॥ ७६६ ॥ क्षिपेरणुक् ॥ ७७०॥
क्षिपीत् प्रेरणे, इत्यस्मात् किद् अणुः प्रत्ययो भवति । क्षिपणुः-समीरणः, विद्युच्च ।। ७७०॥
अञ्जरिष्णः ॥ ७७१ ॥ अञ्जौप व्यक्त्यादौ, इत्यस्माद् इष्णुः प्रत्ययो भवति । अञ्जिष्णुः-घृतम् ॥७७१।। कु-ह-भू-जीवि-गम्यादिभ्य एणुः ॥ ७७२ ।।
एभ्य एणुः प्रत्ययो भवति । कृग्ट हिंसायाम् , डुकृग् करणे वा, करेणुः-हस्ती। हग हरणे, हरेणु:-गन्धद्रव्यम् । भू सत्तायाम् , भवेणुः-भव्यः । जीव प्राणघारणे, जीवेणुः
औषधम् । गम्लु गतो, गमेणुः गन्ता । आदिग्रहणात् शमूच् उपशमे, शमेणुः-उपशमनम् । यजी देवपूजादौ, यजेणुः-यज्ञादिः । डुपची पाके, पचेणुः-पाकस्थानम् । पदेणुः, वहेणुरित्यादि ।। ७७२॥