________________
सूत्र - ७५५-७६४ ]
स्वोपज्ञोणादिगणसूत्र विवरणम्
[ ४४९
शलेरङ्कुः ।। ७५५ ॥
शल गतौ, इत्यस्मात् अङकुः प्रत्ययो भवति । शलङ कु:- -ऋषिः ।। ७५५ ।।
सृ-पृभ्यां-दाकुक् ।। ७५६ ॥
आभ्यां किद्दाकुः प्रत्ययो भवति । सृ गतौ, सदाकु:- दावाग्निः, वायुः, आदित्यः, व्याघ्रः, शकुनिः, अस्तः, भर्ता, गोत्रकृच्च । पृक् पालनपूरणयो:, पृदाकुः - सर्पः, गोत्रकृच्च
।। ७५६ ।।
इषेः स्वाकुकू च ।। ७५७ ॥
इषत् इच्छायाम्, इत्यस्मात् कित् स्वाकुः प्रत्ययो भवति । इक्ष्वाकु :- आदिक्षत्रियः ।। ७५७ ॥
फलि-वल्यमेर्गुः ।। ७५८ ॥
एभ्यो गुः प्रत्ययो भवति । फल निष्पत्तौ फल्गु - असारम् । वलि संवरणे, वल्गुमधुरम्, शोभनं च, वल्गुः - पक्षी । अम गतौ, अङगुः - शरीरावयवः ।। ७५८ ।।
दमेलु' क् च ।। ७५६ ॥
दमूच् उपशमे, इत्यस्माद् गुः प्रत्ययो भवत्यन्त्यस्य च लुग् भवति । दगु :ऋषिः ।। ७५६ ।
होर्हिन् च ॥ ७६० ॥
हिंदू गतिवृद्ध्योः इत्यस्माद् गुः प्रत्ययो भवत्यस्य च हिन् इत्यादेशो भवति । हिङ्गुः - रामठः । । ७६० ।।
प्री-कै-पै-नीलेङ्गुक् ॥ ७६१ ॥
एभ्य किद् अङ्गुः प्रत्ययो भवति । प्रींग्श् तृप्तिकान्त्योः प्रियङ्गुः - फलिनी, रालकश्च । कैं शब्दे, कङगुः - अणुः । पैं शोषणे, पङ्गुः - खञ्जः । णील वर्णे, नीलङगुःकृमिजातिः, शृगालश्च ।। ७६१ ।।
अव्यतिं-गृभ्योऽदुः ।। ७६२ ।।
एभ्योऽटुः प्रत्ययो भवति । अव रक्षणादो, अवटुः - कृकाटिका । ऋक् गतौ, अरटु:वृक्षः । गृत् निगरणे, गरटुः- देशविशेषः, पक्षी, अजगरश्च ।। ७६२ ।।
शलेराटुः || ७६३ ॥
शल गतौ, इत्यस्माद् आटुः प्रत्ययो भवति । शलाटु: - कोमलं फलम् ॥ ७६३ ।। अज्ञ्ज्यवेरिष्टुः ॥ ७६४ ॥