________________
४४८ ]
स्वोपज्ञोणादिगणसूत्रविवरणम्
[सूत्र-७४७-७५६
शः सन्वञ्च ॥ ७४७॥
शोंच तक्षणे, इत्यस्माद् डिद् उः प्रत्ययो भवति, स च सन्वद् भवति । सनि इवास्मिन् द्वित्वं पूर्वस्य च इत्वं भवतीत्यर्थः शिशुः-बालः ।। ७४७ ।।
तनेर्डउः ॥ ७४८ ॥
तनूयी विस्तारे, इत्यस्माद् डिद् अउ: प्रत्ययो भवति, स च सम्वत् । तितउ:परिपवनम् ।। ७४८ ॥
कै-शी-शमि-रमिभ्यः कुः ॥ ७४६ ॥
एभ्यः कुः प्रत्ययो भवति । के शब्दे, काकु:-स्वरविशेषः । शीङ क् स्वप्ने, शेकु:उद्भिविशेषः । शमूच उपशमे, शङ कु:-कीलकः, बाणः, शूलम् , आयुधं, चिह्नम् , छलकश्च । रमि क्रीडायाम् , रङ कु:-मृगः ।। ७४६ ।।
ह्रियः किद्रो लश्च वा ॥ ७५० ॥
ह्रींक् लज्जायाम् , इत्यस्मात् कित् कुः प्रत्ययो भवति, रेफस्य च लकारो वा भवति । ह्रीकुः ह्लीकुश्च त्रपुजतुनी लज्जायांश्च-ह्रीकुः-वनमार्जारः ।। ७५० ।।
किरः प च ॥ ॥ ७५१ ॥
कृत् विक्षेपे, इत्यस्मात् कित् कुः प्रत्ययो भवति, षकारश्चान्तादेशो भवति । किष्कु:-छायामानद्रव्यम् ।। ७५१ ॥
चटि-कठि-पर्दिभ्यः आकुः ।। ७५२ ॥
एभ्य आकुः प्रत्ययो भवति । चटण् भेदे, चटाकु:-ऋषिः, शकुनिश्च । कठ कृच्छजीवने, कठाकु:-कुटुम्बपोषकः। पदि कुत्सिते शब्दे । पर्दाकु:-भेकः, वृश्चिकः, अजगरश्च ।। ७५२ ॥
सिवि-कुटि-कुठि-कु-कुषि-कृषिभ्यः कित् ।। ७५३ ॥
एभ्यः किद् आकुः प्रत्ययो भवति । षिवूच् उतौ, सिवाकुः-ऋषिः । कुटत् कौटिल्ये, कुटाकु:-विटपः । कुठिः सौत्रः, कुठाकु:-श्वभ्रम् । कुछ शब्दे, कुवाकुः-पक्षी । कुषश् निष्कर्षे, कुषाकु:-मूषिकः, अग्निः, परोपतापी च। कृषीत् विलेखने, कृषाकु: कृषीवलः ।। ७५३ ॥
उपसर्गाच्वेर्डित् ।। ७५४ ॥
उपसर्गपूर्वात् चिंग्ट् चयने, इत्यस्माद् डिद् आकुः प्रत्ययो भवति । उपचाकु:संचाकुश्च ऋषिः । निचाकुः-निपुणः, ऋषिश्च ॥ ७५४ ।।