________________
सूत्र-७४०-७४६ ]
स्वोपज्ञोणादिगणसूत्रविवरणम्
[४४७
रवि-लचि-लिङ्गे लुक् च ॥ ७४० ॥
एभ्य उ: प्रत्ययो भवति, नकारस्य च लुग् भवति । रघु लघुङ गतौ । रघुः-राजा। लघु-तुच्छं, शीघ्र च। लिगुण चित्रीकरणे, लिगु:-ऋषिः, सेवकः, मूर्खः, भूमिविशेषश्च ॥७४० ॥
पी-मृग-मित्र-देव-कुमार-लोक-धर्म-विश्व-सुम्नारमावेभ्यो युः ॥ ७४१ ।।
पी मृग-मित्र-देव-कुमार लोक-धर्म-विश्व-सुम्न-अश्मन्-अव इत्येतेभ्यः परात् यांक प्रापणे, इत्यस्मात् किद् उः प्रत्ययो भवति । पीयु:-उलूकः, आदित्यः, सुवणं, कालश्च । मृगयुः-व्याधः, मृगश्च । मित्रयुः-ऋषिः, मित्रवत्सलश्च । देवयुः-धार्मिकः । कुमारयु:राजपुत्रः । लोकयु:-वाक्यकुशलः जनः । धर्मयु:-धार्मिकः । विश्वयु:-वायुः। सुम्नयु:यजमानः । अश्मयु-मूर्खः । अवयु:-काव्यम् ।। ७४१ ॥
पराभ्यां श-खनिभ्यां डित् ॥ ७४२ ॥
पर-आङपूर्वाभ्यां यथासंख्यं श-खनिभ्यां डिद् उः प्रत्ययो भवति । शृश् हिंसायाम् , परान् शृणाति परशुः-कुठारः । खनूग् अवदारणे, आखु:-मूषिकः ॥ ७४२ ॥
शुभेः स च वा ॥ ७४३ ॥
शुभि दीप्तौ, इत्यत्माद् डिद् उः प्रत्ययो भवति, अस्य च दन्त्यः सो वा भवति । सुः शुश्च पूजायाम् , सुपुरुषः-शुनासोरः ।। ७४३ ॥
धु-द्रुभ्याम् ।। ७४४॥ ___ आभ्यां डिद् उः प्रत्ययो भवति । युक् अभिगमे, द्युः-स्वर्गक्रीडा, स्वर्गश्च । → गतो, द्रुः- वृक्षशाखा, वृक्षश्च ।। ७४४ ।।
हरि-पीत-मित-शत-वि-कु-कद्भयो द्रुवः ॥ ७४५ ॥
हरि-पीत-मित-शत-वि-कु-कद् इत्येतेभ्यः पराद् द्रु गतौ, इस्यस्माद् उः प्रत्ययो भवति । हरिद्रुः-वृक्षः, ऋषिः, पर्वतश्च । पीतद्रुः, देवदारुः। मितद्रुः-समुद्रः, तुरगः, मितङ्गमश्च । शतद्रुर्नाम नदः, नदी च । विद्रुः-दारुप्रकारः, वृक्षश्च । कुद्रुः-विकलपादः । कद्रुः-नागमाता, वह्निजातिः, गृहगोधा, वर्णश्च ।। ७४५ ॥
केवयु-भुरण्य्वध्वर्यादयः ॥ ७४६ ॥
केवय्वादयः शब्दा डिदुप्रत्ययान्ता निपात्यन्ते । केवलपूर्वाद्यातेर्ललोपश्च । केवलो याति केवयु:-ऋषिः । भूपूर्वाद्यातेभुरण चादौ, भुवं याति भुरण्यु:- अग्निः । अध्वरं याति पूर्वपदान्तलोपे, अध्वर्यु:-ऋत्विक् । आदिग्रहणात् चरन् याति चरण्यु:-वायुः अभिपूर्वस्य चाश्नातेः, अभीशुः-रश्मिः ।। ७४६ ।।