________________
स्वोपज्ञोणादिगणसूत्रविवरणम् .
[ सूत्र-७३२-७३९
व्यान्तः, पशुः-तिर्यङ, मन्त्रवध्यश्च जनः । भ्रस्जीत् पाके, भृगुः-प्रपातः, ब्रह्मणश्च सुतः । कित्त्वात् 'ग्रह-वश्च-भ्रस्ज-प्रच्छ' इति वृत् 'न्यङ कुद्गमेघादय.' इति गत्वम् ।। ७३१ ॥
दुःस्वप-वनिभ्यः स्थः ॥ ७३२॥
दुस् , सु, अप, वनि इत्येतेभ्यः परात् ष्ठां गतिनिवृत्ती, इत्यस्मात् किद् उः प्रत्ययो भवति । दुष्ठु-अशोभनम् , सुष्ठु-सातिशयम् , अपष्ठु-वामम् , वनिष्ठुः-वपासंनिहितोऽवयवः, अश्वः, संभक्तः, अपानं च ।। ७३२ ॥
हनि-या-कृ-भृ-प-त-तो-द्वे च ॥ ७३३॥
एभ्यः किद् उः प्रत्ययो भवत्येषां द्वे रूपे भवतः। हनंक हिंसागत्योः, जघ्नुः-इन्द्रः, वेगवांश्च । यांक प्रापणे, ययुः-अश्वः, यायावरः, स्वर्गमार्गश्च । डुकृग् करणे, चक्रु:कर्मठः, वैकुण्ठश्च । टुडुइंग पोषणे च, भृग् भरणे वा, बभ्रुः-ऋषिः, नकुलः, राजा, वर्णश्च । पृश् पालनपूरणयोः, पुपुरुः-समुद्रः, चन्द्रः, लोकश्च । त प्लवनतरणयोः, तितिरु:पतङ्गः। श्रङ पालने, तत्रु:-नौका ।। ७३३ ।।
कृ-गृ ऋत उर् च ॥ ७३४ ॥
आभ्यां किद् उ. प्रत्ययो भवति, ऋकारस्य च उर् भवति । कृत् विक्षेपे, कुरु:राजषिः, कुरवः-जनपदः । गृश् शब्दे, गुरुः-आचार्यः; लघुप्रतिपक्षः, पूज्यश्च जनः ।७३४।
परिचातः ॥ ७३५॥
डुपची पाके, इत्यस्माद् उ: प्रत्ययो भवत्यकारस्य च इकारो भवति । पिचुःनिरस्थीकृतः कसिः ॥ ७३५ ।।
अर्तेरूच ॥ ७३६ ॥
ऋक् गतो, इत्यस्माद् उः प्रत्ययो भवत्यस्य च ऊर् इत्यादेशो भवति । ऊरु:शरीराङ्गम् ॥ ७३६ ॥
महत्युर्च ॥ ७३७ ॥
अर्तेर्महत्यभिधेये उः प्रत्ययो भवत्यस्य च उर् इत्यादेशो भवति । उरु-विस्तीर्णम् ॥ ७३७ ॥
उद् च मे ॥ ७३८॥
अर्ते नक्षत्रेऽभिधेये उः प्रत्ययो भवति, धातोश्च उडादेशो भवति । उडु-नक्षत्रम् ॥ ७३८॥
श्लिषेः क च ॥ ७३६ ॥
श्लिषंच् आलिङ्गने, इत्यस्मात् किद् उः प्रत्ययो भवति, ककारश्चान्तादेशो भवति । दिलकुः-मृगास्थि, सव्यवसायः, राज्यं, ज्योतिष, सेवकश्च ।। ७३९ ।।