________________
सूत्र ७२६-७३१ ]
स्वोपज्ञोणादिगणसूत्र विवरणम्
[ ४४५
मि-वहि- चरि चटिभ्यो वा ॥ ७२६ ॥
एभ्यः उः प्रत्ययो भवति, स च णिद्वा भवति । टुमिंग्ट् प्रक्षेपणे, मायुः पित्तं, मानं, शब्दश्च । गोमायुः शृगालः, मयुः किन्नरः, उष्ट्रः, प्रक्षेप, आकूतं च । बाहुलकादात्वाभावः । वहीं प्रापणे । बाहु:-भुजः, बहु-प्रभूतम् । चर भक्षणे च, चारु - शोभनम् चरन्ति अस्माद् देव- पितृ-भूतानि इति अपादानेऽपि भीमादित्वात्, चरुः- देवतोद्देशेन पाकः स्थाली च । चटण् भेदे, चाटु-प्रियाचरणं, प्रटुजनः प्रियवादी, स्फुटवादी, दर्व्यग्रम्, शिष्यश्च । चटुः प्रियाचरणम् ।। ७२६ ।।
ऋ-तृ-शू-मृ-भ्रादिभ्यो रो लश्च ॥ ७२७ ॥
एभ्यो णिद् उः प्रत्ययो भवति, रेफस्य च लकारो भवति । ऋक् गतौ ऋतु प्रापणे च वा, आलु :- श्लेष्मा, श्लेष्मातकः, कन्दविशेषश्च तु प्लवनतरणयो:, तालुःकाकुदम् । शशु हिंसायाम्, शालुः- हिंस्रः कषायश्च । मृतु प्राणत्यागे, मालुः - पत्रलता, यस्या मालधानीति प्रसिद्धिः । टुडुभृग्क् पोषणे च भालुः इन्द्रः । आदिग्रहणादन्येऽपि
।। ७२७ ।।
कृक-स्थूराद्वचः क् च ॥ ७२८ ॥
आभ्यां पराद् वचो णिद् उ: प्रत्ययो भवति, ककारश्नान्तादेशो भवति । वचंक् भाषणे, ब्रू ग्क् व्यक्तायां वाचि, कृकमव्यक्तं ब्रूते वक्ति वा । कृकवाकुः, कुक्कुट, कृकलासः खञ्जरीटश्च । एवं स्थूरवाकुः उच्चैर्ध्वनि: ।। ७२८ ।।
पृ-का- हृषि-धृषीषि-कुहि-भिदि - विदि - मृदि व्यधि-गृध्यादिभ्यः कित् ॥ ७२६ ॥
एभ्यः किद् उः प्रत्ययो भवति । पृश् पालनपूरणयोः पुरुः, महान लोकः, समुद्रः, यजमानः राजा च कश्चित् । कैं शब्दे, कुः पृथ्वी । हृषच् तुष्टो हृषू अलीके वा, हृषुतुष्टः, अलीक:, सूर्य-अग्नि शशिनश्च । ञिधृषाट् प्रागल्भ्ये, धृषुः- प्रगल्भः संतापः, उत्साहः, पर्वतश्च । इषत् इच्छायाम् इषुः शरः । कुहणि विस्मापने, कुहु ! - नष्टचन्द्रामावास्या । भिदुपी विदारणे, भिदुः वज्रः, कर्दपश्च । विदक् ज्ञाने, विदुः- हस्तिमस्त कैकदेशः । मृदश् क्षोदे, मृदुः - अकठिनः । व्यधंच् ताडने, विदुः - चन्द्रः, वायु, अग्निश्च । गृधूच् अभिकाङक्षायाम्, गृधुः कामः । आदिग्रहणात् पूरैचि आप्यायने, पूरण आप्यायने वा । पूरितमनेन यशसा सर्वमिति पूरुः- राजर्षिः एवमन्येऽपि ।। ७२९ ।।
रभि-प्रथिभ्यामृच्च रस्य ॥ ७३० ॥
आभ्यां कि उः प्रत्ययो भवति, रेफस्य च ऋकारो भवति । रभि राभस्ये, ऋभवः - देवाः । प्रथिषु प्रख्याने, पृथुः- राजा, विस्तीर्णश्च ।। ७३० ।।
स्पशि-भ्रस्जेः स्लुक् च ॥ ७३१ ॥
आभ्यां कि उः प्रत्ययो भवति, सकारस्य लुक् च भवति । स्पशिः सौत्रः ताल