________________
सूत्र-७८९-७६७ ]
स्वोपज्ञोणादिगणसूत्रविवरणम्
[ ४५३
हो जह च ॥ ७८९॥
ओहांक् त्यागे, इत्यस्मात् किद् नुः प्रत्ययो भवत्यस्य च जह, इत्यादेशो भवति । जह्न :-गङ्गापिता ॥७८९ ।।
वचे कगौ च ॥ ७६०॥
वचं भाषणे, इत्यस्माद् नुः प्रत्ययो भवति, ककार-गकारौ चान्तादेशौ भवतः । वक्नुः, वग्नुश्चवाग्मी ।। ७९० ।।
कृ-हनेस्तुक-नुकौ ॥ ७६१॥
आभ्यां कितौ तु-नु इति प्रत्ययो भवतः । डुकृग् करणे, कृतु:-कर्मकारः । कृणुःकोशकारः, कारुश्च । हनक हिंसागत्योः, हतुः-हिमः, हनुः-वक्त्रैकदेशः । बाहुलकान्नलोपः ।। ७६१॥
गमेः सन्वच्च ॥ ७६२ ॥
गम्ल गती, इत्यस्मात् तुक नुको सन्वत् च भवतः । जिगन्तुः- ब्राह्मणः, दिवसः, मार्गः, प्राणः, अग्निश्च । जिगन्नु:-प्राणः, बाणः, मनः, मीनः, वायुश्च ।। ७६२ ।।
दा-भू-क्षण्युन्दि-नदि-वदिपत्यादेरनुङ् ।। ७६३ ॥
एभ्यो डिद् अनुः प्रत्ययो भवति । डुदांग्क् दाने । दनुः-दानवमाता । भू सत्तायाम् , भुवनु:-मेघः, चन्द्रः, भवितव्यता, हंसश्च । क्षणू यी हिसायाम् , क्षणनुः-यायावरः । उन्दैप् क्लेदने. उदनः-शकः । णद अव्यक्ते शब्दे, नदनः-मेघः, सिहश्च । वद वक्तायां वाचि, वदनुः-वक्ता । पत्ल गती, पतनुः-श्येनः । आदिग्रहणादन्येऽपि । कित्त्वमकृत्वा ङित्करणं वदेवदभावार्थम् ।। ७६३ ॥
कृशेरानुक् ।। ७६४ ॥ कृशच तनुत्वे, इत्यस्मात् किद् आनुः प्रत्ययो भवति । कृशानु:-वह्निः॥ ७९४ ॥ जीवेरदानुक् ॥ ७६५ ॥
जीव प्राणधारणे, इत्यस्मात् किद् रदानुः प्रत्ययो भवति । जीरदानुः । कित्करणं गुणप्रतिषेधार्थम् । वलोपे हि नाभ्यन्तत्वाद् गुणः स्यात् ।। ७९५ ॥
वचेरक्नुः ॥ ७६६ ॥
वचं भाषणे, इत्यस्मादक्नुः प्रत्ययो भवति । वचक्नुः वाग्मी, आचार्यः, ब्राह्मणः, ऋषिश्च ॥ ७९६ ॥
हृषि-पुषि-घुषि-गदि-मदि-नन्दि-गडि-मण्डि-जनि-स्तनिभ्यो रित्नुः ॥७६७।। एभ्यो ण्यन्तेभ्य इत्नुः प्रत्ययो भवति । हृषंच् तुष्टी, हृषू अलीके वा, हर्षयित्नु: