________________
४५४ ]
स्वोपज्ञोणादिगण सूत्र विवरणम्
[ सूत्र- ७९८-८०४
आनन्द:, स्वजन:, रङ्गोपजीवी, प्रियंवदश्च । पुषं पुष्टी, पोषयित्नुः- भर्ता, मेघः, कोकिलश्च । घुषण् विशब्दने, घोषयित्नुः - कोकिलः, शब्दश्च । गदण् गर्जे, गदयित्नुः - पर्जन्यः, वावदूकः, भ्रमरः कामश्च । मदेच् हर्षे, मदयित्नुः- मदिरा, सुवर्णम् अलंकारश्च । टुनटु समृद्धौ, नन्दयित्नुः पुत्रः, आनन्दः प्रमुदितश्च । गड सेचने, गडयित्नुः - बलाहकः । मडु भूषायाम् मण्डयित्नुः - मण्डयिता, कामुकश्च । जनैचि प्रादुर्भावे, जनयित्नुः - पिता । स्तनण् गर्जे, स्तनयित्नु:- मेघः, मेघगर्जितं च ।। ७९७ ।।
.
कस्यर्तिस्यामिपुक् ॥ ७६८ ॥
आभ्यां किद् इषुः प्रत्ययो भवति । कस गतौ, कसिपुः - अणनम् । ऋक् गतौ, रिपु:शत्रुः ।। ७९८ ।।
कम्यमिभ्यां बुः ॥ ७६६ ॥
आभ्यां बुः प्रत्ययो भवति । कमूङ् कान्तो, कम्बुः शङ्खः । अम गतौ, अम्बु- पानीयम् ।। ७९६ ।।
अरमुः || ८०० ॥
अभ्र गतौ, इत्यस्यादमुः प्रत्ययो भवति । अभ्रमुः- देवहस्तिनी ।। ८०० ।।
यजि- शुन्धि - दहि-दसि - जनि-मनिभ्यो युः ।। ८०१ ॥
यो युः प्रत्ययो भवति । यजीं देवपूजादौ, यज्युः अग्निः, अध्वर्युः, यज्वा, शिष्यश्च । शुन्ध शुद्धो, शुन्ध्युः - अग्निः, आदित्यः पवित्रं च । दहं भस्मीकरणे, दह्य:अग्निः । दसूच उपक्षये, दस्युः- चौरः । जनैचि प्रादुर्भावे, जन्युः - अपत्यं, पिता, वायुः, प्रादुर्भावः, प्रजापतिः, प्राणी च । मनिच् ज्ञाने मन्युः - कृपा, क्रोधः - शोकः, क्रतुश्च ॥ ८०१ |
भुजेः कित् ॥ ८०२ ॥
भुजंप् पालनाभ्यवहारयोः, इत्यस्मात् किद् युः प्रत्ययो भवति । भुज्युः अग्निः, आदित्य:, गरुड, भोगः, ऋषिश्च ॥ ८०२ ।।
सतेंरय्वन्यू ।। ८०३ ।।
सृ गतौ इत्यस्माद् अयु, अन्यु इति प्रत्ययौ भवतः । सरयुः- नदी वायुश्च । दीर्घान्तमिममिच्छन्त्येके । सरयूः । श्लिष्ट निर्देशात् तदपि संगृहीतमेव । सरण्यु:- मेघः, अश्विनोर्माता, समेघो वायुश्च ॥ ८०३ ॥
भू-क्षिपि चरेरन्युक् ॥ ८०४ ॥
एभ्यः किदन्युः प्रत्ययो भवति । भू सत्तायाम्, भुवन्युः - ईश्वरः, अग्निश्च । क्षिपत् प्रेरणे, क्षिपण्युः - वायुः, वसन्तः, विद्युत्, अर्थः, कालश्च । चर भक्षणे च चरणयुः वायुः ।। ८०४ ।।