Book Title: Siddha Hemchandra Shabdanushasan Bruhad Vrutti Part 02
Author(s): Vajrasenvijay
Publisher: Bherulal Kanaiyalal Religious Trust

View full book text
Previous | Next

Page 414
________________ सूत्र-४३७-४४१ ] स्वोपज्ञोणादिगणसूत्रविवरणम् [ ४०५ आभ्यां कित् करः प्रत्ययो भवति । षूत् प्रेरणे, सूकर:-वराहः । पुष पुष्टौ, पुष्कर, पद्म, तूर्यमूखं, हस्तिहस्ताग्रम् , आकाशं, मुरजः-तीर्थनाम च ॥४३६ ॥ अनि-काभ्यां तरः ॥ ४३७॥ आभ्यां कित् तरः प्रत्ययो भवति । अनक् प्राणने, अन्तरं-बहिर्योगोपसंव्यानयोः, छिद्रमध्यविरहविशेषेषु च । के शब्दे, कातरः-भीरुः ।। ४३७ ।। इण-पूभ्यां कित् ॥ ४३८ ॥ आभ्यां कित् तरः प्रत्ययो भवति । इण्क् गती, इतरः-निर्दिष्टप्रतियोगी । पूग्श् पवने, पूतर:-जलतन्तुः ॥ ४३८ ॥ मी-ज्यजि-मा-मद्यशौ-वसि किभ्यः सरः ॥ ४३६ ॥ एम्यः सरः प्रत्ययो भवति । मीङच हिंसायाम् , मेसर:-वर्णविशेषः । जि अभिभवे, जेसरः-शूरः । अज क्षेपणे च, वेसरः-अश्वतरः । वेसृ गतौ, इत्यस्य वा जठरेत्यादिनिपातनादरे रूपम् । मांक माने, मासरः-आयामः । मदैच् हर्षे, मत्सरः-क्रोधविशेषः । अशौटि व्याप्ती, अक्षरं वर्णः, मोक्षपदम् , आकाशं च । अक्षर्वा अरे रूपम् । वसं निवासे, वत्सरः, संवत्सरः, परिवत्सरः, अनुवत्सरः, विवत्सरः, उद्वत्सरः-वर्षाभिधानानि । इडामानेन वसन्त्यत्र कालावयवा इति इड्वत्सरः, इडया मानेन वसन्त्यति इडावत्सरः-वर्षविशेषाभिधाने । परिवत्सरादीन्यपि वर्षविशेषाभिधानानीत्येके । कि इत्यदादौ स्मरन्ति केसरःसिंहसटः, पुष्पावयवः, बकुलश्च । बाहुलकान्न षत्वम् ॥ ४३९ ।। कृ-धू-तन्यषिभ्यः कित् ॥ ४४०॥ एभ्यः कित् सरः प्रत्ययो भवति । डुकृग् करणे, कृसरः कृसरा वा विलेपिकाविशेष: वर्णविशेषश्च । धूत् विधूनने, धूसर:-भिन्नवर्णः, वायुः, धान्यविशेषश्च । तनूयी विस्तारे, तसरः-कौशेयसूत्रम् । ऋषत् गतौ, ऋक्षर:-कण्टकः, ऋत्विक् च, ऋक्षरा-तोयधारा ।४४०। कग-श-द-वृग-चति-खटि-निषदिभ्यो वरट् ॥ ४४१ ॥ एभ्यष्टिद्वरः प्रत्ययो भवति । कृत् विक्षेपे, कर्बरः-व्याघ्रः, विष्किरः, अञ्जलिश्च, कर्बरी-भूमिः, शिवा च । गृत् निगरणे, गर्वरः-अहंकारः महिषश्च, गर्वरी-महिषी, संख्या च। शृश् हिंसायाम् , शर्वरः-सायाह्नः-रुद्रः, हिंस्रश्च, शर्वरं-तमः, अन्नं च, शर्वरी-रात्रि: । दृश् विदारणे, दर्वरं-वज्रम् , दर्वरी-सेवा । वृगट् वरणे, वर्वर:-कामः, चन्दनं, केशविशेष:-लुब्धकश्च, वर्वरी-नदी, भार्या च । चतेग याचने, चत्वरं-चतुष्पथम् अरण्यं च । चत्वरी-रथ्या, देवता, वेदिश्च । खट काङ क्षे, खट्वरं-रससंकीर्णशाकपाकः । कटे वर्षावरणयोः, कट्वर!-व्यालाश्वः, कट्वरी-दधिविकारः । षद्लु विशरणादौ, निपूर्वः, निषद्वरः कर्दमः-वह्निः, कर्मकरः, कन्दर्पः, इन्द्रश्च । निषद्वरम्-आसनम् ,-निषद्वरी-प्रपा, रात्रिः, प्रमदा इन्द्राणी च ।। ४४१ ।।

Loading...

Page Navigation
1 ... 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512