Book Title: Siddha Hemchandra Shabdanushasan Bruhad Vrutti Part 02
Author(s): Vajrasenvijay
Publisher: Bherulal Kanaiyalal Religious Trust

View full book text
Previous | Next

Page 451
________________ ४४२] स्वोपज्ञोणादिगणसूत्रविवरणम् [सूत्र-७०६-७११ छवि-छिवि-स्फवि-स्फिवि-स्थवि-स्थिवि-दवि-दीवि-किकिवि-दिदिवि-दीदिविकिकीदिवि-किकिदीवि-शिव्यटव्यादयः ॥ ७०६ ॥ एते ङिद् विप्रत्ययान्ता निपात्यन्ते । छयतेह्रस्वश्च, छविः- त्वक, छाया, आवरणं च । छिदेलुक् च, छिविः-फल्गुद्रव्यम् । स्फायतेः, स्फ-स्फिभावौ च, स्फविः-वृक्षजातिः, स्फिविः-वृक्षः, उदश्विच्च । तिष्ठतेः स्थ-स्थिभावौ च, स्थविः-प्रसेवकः, तन्तुवायः, सीमा, अग्निः, अजङ्गमः, स्वर्गः, कुष्ठी, कुष्ठिमांसं, फलं च, स्थिवि -सीमा । दमेनुक च, दवि:धर्मशीलः, दाता, स्थानं, फालश्च । दीव्यतेर्दीर्घश्च, दीवि: कितवः, द्युतिमान् , कालः, व्याघ्रजातिश्च । कितेदित्वं पूर्वस्य चत्वाभावो लुक् च, किकिविः-पक्षिविशेषः । दिवेद्वित्वं पूर्वस्य दीर्घश्च वा, दिदिवि:-स्वर्गः। दीदिविः-अन्नं स्वर्गश्च । किते किकीदिभावश्च, किकीदिविः-वर्णः, पक्षी च । किकिपूर्वात् दीव्यतेदोघश्च । किकीति कुर्वन् दीव्यतीति किकिदीविः-चाषः । शीङो ह्रस्वश्च । शिविः-राजा। अटेरत् चान्तः अटवि:-अरण्यम् । आदिग्रहणादन्येऽपि ।। ७०६ ॥ प्रषि-प्लुषि-शुषि-कुष्यशिभ्यः सिक् ॥ ७०७ ॥ एभ्यः कित् सिः प्रत्ययो भवति । पृषू प्लुषू दाहे, प्रक्षि-अग्निः, उदपानश्च । प्लूक्षिः-अग्निः, जठर कुशूलश्च । शुषंच् शोषणे, शुक्षिः-वायुः, निदाघः, यवासकः, तेजश्च । कुषश् निष्कर्षे, कुक्षिः-जठरम् । अशौटि व्याप्तौ, अक्षि-नेत्रम् ॥ ७०७ ।। गोपादेरनेरसिः ॥ ७०८॥ गोप इत्यादिभ्यः पराद् अनक प्राणने, इत्यस्माद् असिः प्रत्ययो भवति । गोपानसिः-सौधाग्रभागच्छदिः । चित्रानसिः-जलचरः। एकानसिः-उज्जयनी । वाराणसि:काशीनगरी ।। ७०८ ।। वृधृ-पृ-वृ-साभ्यो नसिः ॥ ७०६ ॥ एभ्यो नसिः प्रत्ययो भवति । वृग्ट् वरणे, वर्णसिः-तरुः । धृग् धारणे, धर्णसिःशैलः, लोकपालः, जलं, माता च । पृश् पालनपूरणयोः, पर्णसिः-जलधरः, उलूखलं, शाकादिश्च । वृश् वरणे, वर्णसिः-भूमिः । षोंच अन्तकर्मणि, सानसिः-स्नेहः, नखः, हिरण्यम् , ऋणं, सखा सनातनश्च ।। ७०६॥ त्रियो हिक् ॥ ७१०॥ वीश् वरणे, इत्यस्माद् किद् हिः प्रत्ययो भवति । व्रीहिः-धान्यविशेषः ॥७१० ॥ तृ-स्तृ-तन्द्रि-तन्त्र्यविभ्य ईः ॥ ७११ ॥ एभ्यः ईः प्रत्ययो भवति । तु प्लवनतरणयोः, तरी:-नौः, अग्निः, वायुः, प्लवनश्च । स्तृग्श् आच्छादने, स्तरीः-तृणं, धूमः, मेघः, नदी, शय्या च । तन्द्रिः सादमोहनयोः सौत्रः,

Loading...

Page Navigation
1 ... 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512