Book Title: Siddha Hemchandra Shabdanushasan Bruhad Vrutti Part 02
Author(s): Vajrasenvijay
Publisher: Bherulal Kanaiyalal Religious Trust

View full book text
Previous | Next

Page 456
________________ सूत्र-७४०-७४६ ] स्वोपज्ञोणादिगणसूत्रविवरणम् [४४७ रवि-लचि-लिङ्गे लुक् च ॥ ७४० ॥ एभ्य उ: प्रत्ययो भवति, नकारस्य च लुग् भवति । रघु लघुङ गतौ । रघुः-राजा। लघु-तुच्छं, शीघ्र च। लिगुण चित्रीकरणे, लिगु:-ऋषिः, सेवकः, मूर्खः, भूमिविशेषश्च ॥७४० ॥ पी-मृग-मित्र-देव-कुमार-लोक-धर्म-विश्व-सुम्नारमावेभ्यो युः ॥ ७४१ ।। पी मृग-मित्र-देव-कुमार लोक-धर्म-विश्व-सुम्न-अश्मन्-अव इत्येतेभ्यः परात् यांक प्रापणे, इत्यस्मात् किद् उः प्रत्ययो भवति । पीयु:-उलूकः, आदित्यः, सुवणं, कालश्च । मृगयुः-व्याधः, मृगश्च । मित्रयुः-ऋषिः, मित्रवत्सलश्च । देवयुः-धार्मिकः । कुमारयु:राजपुत्रः । लोकयु:-वाक्यकुशलः जनः । धर्मयु:-धार्मिकः । विश्वयु:-वायुः। सुम्नयु:यजमानः । अश्मयु-मूर्खः । अवयु:-काव्यम् ।। ७४१ ॥ पराभ्यां श-खनिभ्यां डित् ॥ ७४२ ॥ पर-आङपूर्वाभ्यां यथासंख्यं श-खनिभ्यां डिद् उः प्रत्ययो भवति । शृश् हिंसायाम् , परान् शृणाति परशुः-कुठारः । खनूग् अवदारणे, आखु:-मूषिकः ॥ ७४२ ॥ शुभेः स च वा ॥ ७४३ ॥ शुभि दीप्तौ, इत्यत्माद् डिद् उः प्रत्ययो भवति, अस्य च दन्त्यः सो वा भवति । सुः शुश्च पूजायाम् , सुपुरुषः-शुनासोरः ।। ७४३ ॥ धु-द्रुभ्याम् ।। ७४४॥ ___ आभ्यां डिद् उः प्रत्ययो भवति । युक् अभिगमे, द्युः-स्वर्गक्रीडा, स्वर्गश्च । → गतो, द्रुः- वृक्षशाखा, वृक्षश्च ।। ७४४ ।। हरि-पीत-मित-शत-वि-कु-कद्भयो द्रुवः ॥ ७४५ ॥ हरि-पीत-मित-शत-वि-कु-कद् इत्येतेभ्यः पराद् द्रु गतौ, इस्यस्माद् उः प्रत्ययो भवति । हरिद्रुः-वृक्षः, ऋषिः, पर्वतश्च । पीतद्रुः, देवदारुः। मितद्रुः-समुद्रः, तुरगः, मितङ्गमश्च । शतद्रुर्नाम नदः, नदी च । विद्रुः-दारुप्रकारः, वृक्षश्च । कुद्रुः-विकलपादः । कद्रुः-नागमाता, वह्निजातिः, गृहगोधा, वर्णश्च ।। ७४५ ॥ केवयु-भुरण्य्वध्वर्यादयः ॥ ७४६ ॥ केवय्वादयः शब्दा डिदुप्रत्ययान्ता निपात्यन्ते । केवलपूर्वाद्यातेर्ललोपश्च । केवलो याति केवयु:-ऋषिः । भूपूर्वाद्यातेभुरण चादौ, भुवं याति भुरण्यु:- अग्निः । अध्वरं याति पूर्वपदान्तलोपे, अध्वर्यु:-ऋत्विक् । आदिग्रहणात् चरन् याति चरण्यु:-वायुः अभिपूर्वस्य चाश्नातेः, अभीशुः-रश्मिः ।। ७४६ ।।

Loading...

Page Navigation
1 ... 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512