________________
४४२]
स्वोपज्ञोणादिगणसूत्रविवरणम्
[सूत्र-७०६-७११
छवि-छिवि-स्फवि-स्फिवि-स्थवि-स्थिवि-दवि-दीवि-किकिवि-दिदिवि-दीदिविकिकीदिवि-किकिदीवि-शिव्यटव्यादयः ॥ ७०६ ॥
एते ङिद् विप्रत्ययान्ता निपात्यन्ते । छयतेह्रस्वश्च, छविः- त्वक, छाया, आवरणं च । छिदेलुक् च, छिविः-फल्गुद्रव्यम् । स्फायतेः, स्फ-स्फिभावौ च, स्फविः-वृक्षजातिः, स्फिविः-वृक्षः, उदश्विच्च । तिष्ठतेः स्थ-स्थिभावौ च, स्थविः-प्रसेवकः, तन्तुवायः, सीमा, अग्निः, अजङ्गमः, स्वर्गः, कुष्ठी, कुष्ठिमांसं, फलं च, स्थिवि -सीमा । दमेनुक च, दवि:धर्मशीलः, दाता, स्थानं, फालश्च । दीव्यतेर्दीर्घश्च, दीवि: कितवः, द्युतिमान् , कालः, व्याघ्रजातिश्च । कितेदित्वं पूर्वस्य चत्वाभावो लुक् च, किकिविः-पक्षिविशेषः । दिवेद्वित्वं पूर्वस्य दीर्घश्च वा, दिदिवि:-स्वर्गः। दीदिविः-अन्नं स्वर्गश्च । किते किकीदिभावश्च, किकीदिविः-वर्णः, पक्षी च । किकिपूर्वात् दीव्यतेदोघश्च । किकीति कुर्वन् दीव्यतीति किकिदीविः-चाषः । शीङो ह्रस्वश्च । शिविः-राजा। अटेरत् चान्तः अटवि:-अरण्यम् । आदिग्रहणादन्येऽपि ।। ७०६ ॥
प्रषि-प्लुषि-शुषि-कुष्यशिभ्यः सिक् ॥ ७०७ ॥
एभ्यः कित् सिः प्रत्ययो भवति । पृषू प्लुषू दाहे, प्रक्षि-अग्निः, उदपानश्च । प्लूक्षिः-अग्निः, जठर कुशूलश्च । शुषंच् शोषणे, शुक्षिः-वायुः, निदाघः, यवासकः, तेजश्च । कुषश् निष्कर्षे, कुक्षिः-जठरम् । अशौटि व्याप्तौ, अक्षि-नेत्रम् ॥ ७०७ ।।
गोपादेरनेरसिः ॥ ७०८॥
गोप इत्यादिभ्यः पराद् अनक प्राणने, इत्यस्माद् असिः प्रत्ययो भवति । गोपानसिः-सौधाग्रभागच्छदिः । चित्रानसिः-जलचरः। एकानसिः-उज्जयनी । वाराणसि:काशीनगरी ।। ७०८ ।।
वृधृ-पृ-वृ-साभ्यो नसिः ॥ ७०६ ॥
एभ्यो नसिः प्रत्ययो भवति । वृग्ट् वरणे, वर्णसिः-तरुः । धृग् धारणे, धर्णसिःशैलः, लोकपालः, जलं, माता च । पृश् पालनपूरणयोः, पर्णसिः-जलधरः, उलूखलं, शाकादिश्च । वृश् वरणे, वर्णसिः-भूमिः । षोंच अन्तकर्मणि, सानसिः-स्नेहः, नखः, हिरण्यम् , ऋणं, सखा सनातनश्च ।। ७०६॥
त्रियो हिक् ॥ ७१०॥ वीश् वरणे, इत्यस्माद् किद् हिः प्रत्ययो भवति । व्रीहिः-धान्यविशेषः ॥७१० ॥ तृ-स्तृ-तन्द्रि-तन्त्र्यविभ्य ईः ॥ ७११ ॥
एभ्यः ईः प्रत्ययो भवति । तु प्लवनतरणयोः, तरी:-नौः, अग्निः, वायुः, प्लवनश्च । स्तृग्श् आच्छादने, स्तरीः-तृणं, धूमः, मेघः, नदी, शय्या च । तन्द्रिः सादमोहनयोः सौत्रः,