________________
सूत्र-७१२-७१६ ]
स्वोपज्ञोणादिगणसूत्रविवरणम्
तन्द्री:-मोहनिद्रा । तन्त्रिण कुटुम्बधारणे, तन्त्री:-शुष्कस्नायुः, वादित्रं, वीणा, आलस्यं च । अव रक्षणादौ, अवीः-प्रकाशः, आदित्यः, भूमिः, पशुः, राजा, स्त्री च ॥ ७११ ।।...'
नडेणित् ॥ ७१२॥
नडे: सौत्राद् ईः प्रत्ययो भवति, स च णिद् भवति । नाडी-आयतशुषिरं, द्रव्यम् , अर्धमुहूर्तश्च ॥ ७१२॥
वातात् प्रमः कित् ॥ ७१३ ॥
वातपूर्वपदात् प्रैणोपसृष्टात् मांक माने, इत्यस्मात् किद् ईः प्रत्ययो भवति । वातप्रमी:-वात्या, अश्वः, वातमृगः, पक्षी, शमीवृक्षश्च ।। ७१३ ।।
या-पाभ्यां द्वे च ॥ ७१४ ॥
आभ्यां किद् ईः प्रत्ययो भवत्यनयोश्च द्वे रूपे भवतः । यांक प्रापणे, ययीः-मोक्षमार्गः, दिव्यवृष्टिः, आदित्यः, अश्वश्च । पां पाने, पपीः-रश्मिः, सूर्यः, हस्ती च ।।७१४॥
लक्षेर्मोऽन्तश्च ॥ ७१५ ॥
लक्षीण् दर्शनाङ्कनयोः, इत्यस्माद् ईः प्रत्ययो भवति । मकारश्चान्तो भवति लक्ष्मी:-श्रीः ।। ७१५ ॥
भृ-मृ-त-त्सरि-तनि-धन्यनि-मनि-मस्जि-शी-वटि-कटि-पटि-गडि-चञ्च्यसिवसि-त्रपि-श-स्व-स्निहि-क्लिदि-कन्दीन्दि-विन्धन्धि-वन्ध्यणि-लोष्टि-कुन्थिभ्य उः
॥७१६ ॥ - एभ्यः उः प्रत्ययो भवति । टुडु,ग्क पोषणे च, भृग भरणे वा। भरु:-समुद्रः, वणिः, भर्ता, च । मृत् प्राणत्यागे, मरु:-निर्जलो देशः, गिरिश्च । तृ प्लवनतरणयोः, तरु:-वृक्षः । त्सर छद्मगतो, त्सरुः-आदर्शखड्गादिग्रहणप्रदेशः, वञ्चकः, क्षुरिका च । तनूयी विस्तारे, तनुः-देहः, सूक्ष्मश्च । धन धान्ये सौत्रः, धनुः-अस्त्रं, दानमानं च । अनक् प्राणने, अनुः-प्राणः, अनु पश्चादाद्यर्थेऽव्ययम् , मनिच् ज्ञाने, मनूयी बोधने वा, मनु:प्रजापतिः । टुमस्जोंत् शुद्धौ । मद्गुः-जलवायसः । शीङक स्वप्ने, शयु:-अजगरः स्वप्न:, आदित्यश्च । वट वेष्टने, वटु:-माणवकः । कटे वर्षावरणयोः, कट:-रसविशेषः । पट गतौ, पटुः-दक्षः । गड सेचने, गडुः-घाटामस्तकयोर्मध्ये मांसपिण्डः, स्फोटश्च । चञ्चू गतौ, चञ्चूः -पक्षिमुखम् । असूच शेपणे, असव:-प्राणाः। वसं निवासे, वसु-द्रव्यं, तेजो, देवता च । वसुः कश्चिद्राजा । त्रपौषि लज्जायाम् , अपु-लौहविशेषः । शश हिंसायाम् , शरु:क्रोधः, आयुधः, हिंस्रश्च । औस्व शब्दोपतापयोः, स्वरुः-प्रतापः, वज्रः-वज्रा-स्फालनं च । ष्णिहौच प्रीती, स्नेहुः-चन्द्रमाः, सन्निपातजो व्याधिविशेषः, पित्तं, वनस्पतिश्च । क्लिदौच आर्द्रभावे, क्लेदु:-क्षेत्र, चन्द्रः, भगम् , शरीरभङ्गश्च, क्लेदयतीति क्लेदु:-चन्द्रमा इत्यन्ये । कदु रोदनाह्वानयोः, कन्दुः-पाकस्थानम्-सूत्रोतं च क्रीडनम् । इदु परमेश्वर्ये, इन्दुः-चन्द्र। विदु अवयवे, विन्दुः-विह्वट् । अन्धण् दृष्टय पसंहारे, अन्धुः-कूपः, व्रणश्च । बन्धंश् बन्धने,