Book Title: Siddha Hemchandra Shabdanushasan Bruhad Vrutti Part 02
Author(s): Vajrasenvijay
Publisher: Bherulal Kanaiyalal Religious Trust
View full book text ________________
सूत्र--६०८-६०६ ]
स्वोपज्ञोणादिगणसूत्रविवरणम्
[४२९
गोमायुः, अग्निः, शब्दः, प्रजनप्राप्ता, चतुष्पात् , जलदश्च । काशृङ दीप्तौ, काशयःजनपदः । छर्दण् वमने, छदि:-वमनम् । तन्त्रिण कुटुम्बधारणे, तन्त्रिः -वीणासूत्रम् । मन्त्रिण गुप्तभाषणे, मन्त्रिः-सचिवः । खडुण् भेदे, खण्डिः-प्रद्वारम् । मडु भूषायाम् , मण्डि:मृदुभाजनपिधानम् । चडुङ कोपे, चण्डि:-भामिनी । यतैङ प्रयत्ने, यति:-भिक्षुः। अजौप् व्यक्तिम्रक्षणगतिषु, अजिः-सज्जः, पेषणी, पेजः, गतिश्च । समञ्जिः-शिश्नः । मसैच परिणामे, मसिः-शस्त्री । असूच क्षेपणे. असिः-खड्गः । वनूयी याचने, वनिः-साधुः, यात्रा, शकुनिः, अग्निश्च । ध्वन शब्दे, ध्वनिः-नादः । षण भक्ती, सनि:-संभक्ता, पन्थाः, दानं, म्लेच्छः, नदीतटं च । गम्लु गतौ, गमिः-आचार्यः । तमूच् काङक्षायाम् , तमि:अलसः । ग्रन्थश् संदर्भे, श्रन्थश् मोचन-प्रतिहर्षयोः, ग्रन्थिः, श्रन्थिश्च पर्व संध्यादि । जनैचि प्रादुर्भावे, जनिः- वधूः, कुलाङ्गना, भगिनी, प्रादुर्भावश्च । मण शब्दे, मणिः-रत्नम् । आदिग्रहणात् वहीं प्रापणे, वहिः-अश्वः । खादृ भक्षणे, खादि:-श्वा । दधि धारणे, दधिक्षीरविकारः। खल संचये च, खलि:-पिण्याकः । शचि व्यक्तायां वाचि, शची-इन्द्राणी, 'इतोऽक्तयर्थात' इति गौरादित्वाद् वा डीः इत्यादयोऽपि भवन्ति ।। ६०७ ।।
किलि-पिलि-पिशि-चिटि-त्रुटि-शुण्ठि-तुण्डि-कुण्डि-भण्डि-हुण्डि-हिण्डि-पिण्डिचुल्लि-बुधि-मिथि-रुहि-दिवि-कीर्त्यादिभ्यः ॥ ६०८॥
एभ्यः इ: प्रत्ययो भवति । किलत् श्वैत्य-क्रीडनयोः, केलिः-क्रीडा । पिलण क्षेपे, पेलि:-क्षुद्रपेला । पिशत् अवयवे, पेशि:-मांसखण्डम् । चिट प्रेष्ये, चेटि:-दारिका, प्रेष्या च । त्रुटत् छेदने, ण्यन्तः, त्रोटिः चञ्चुः। शुठु शोषणे, शुण्ठिः-विश्वभेषजम् । तुडुङ तोडने, तुण्डि:-आस्यम् , प्रवृद्धा च नाभिः । कुडुङ दाहे. कुण्डि:-जलभाजनम् । भडुङ परिभाषणे, भण्डिः-शकटम् । हुडुङ संघाते, हुण्डि:-पिण्डितः ओदनः । हिडुङ गतौ च, हिण्डि:-रात्रौ रक्षाचारः । पिडुङ संघाते, पिण्डिः-निष्पीडितस्नेहः पिण्डः । चुल्ल हावकरणे, चुल्लि:-रन्धनस्थानम् । बुधिंच ज्ञाने, बोधिः-सम्यग्ज्ञानम् । मिथङ-मेधाहिंसयोः, मेथि:-खलमध्यस्थूणा । रुहं बीजजन्मनि, रोहिः-सस्य, जन्म च । दिवूच् क्रीडादौ, देविःभूमिः । कृतण संशब्दने, णिजन्तः, कीर्तिः-यशः । आदिग्रहणादन्येऽपि ।। ६०८ ॥
नाम्युपान्त्यक-गृ-श-पृ-पूभ्यः कित् ॥ ६०६ ॥
नाम्युपान्त्येभ्यः क्रादिभ्यश्च किदिः प्रत्ययो भवति । लिखत् अक्षरविन्यासे, लिखि:शिल्पम् । शूच् शोके, शुचिः-पूतः, विद्वान् , धर्मः, आषाढश्च । रुचि अभिप्रोत्यां च, रुचि:दीप्तिः, अभिलाषश्च । भुजंप् पालनाभ्यवहारयोः, भुजिः-अग्निः, राजा, कुटिलं च । कुणत् शब्दोपकरणयोः, कुणिः-विकलो हस्तः, हस्तविकलश्च । सृजत् विसर्गे, सृजिः पन्थाः । द्युति दोप्तो, द्युतिः-दोप्तिः । ऋत् घृणागतिस्पर्धेषु, ऋति:-यतिः । छदृपी द्वैधीकरणे, छिदि:छेत्ता, पशुश्च । मुदि हर्षे, मुदि:-बालः । भिदृपी विदारणे, भिदिः-वज्र, सूचकः भत्ता च । ऊदपी दीप्तिदेवनयोः, छुदिः-रथकारः । लिपीत् उपदेहे लिपिः-अक्षरजातिः । तुर त्वरणे, सौत्रः, तुरिः-तन्तुवायोपकरणम् । डुलण् उत्क्षेपे, डुलि:-कच्छपः । त्विषीं दीप्तौ,
Loading... Page Navigation 1 ... 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512