Book Title: Siddha Hemchandra Shabdanushasan Bruhad Vrutti Part 02
Author(s): Vajrasenvijay
Publisher: Bherulal Kanaiyalal Religious Trust
View full book text ________________
- ४१४ ]
स्वोपज्ञोणादिगणसूत्रविवरणम्
[ सूत्र-४९०-४९६
तमूच काङ्क्षायाम् , इत्यस्माद् ऊल: प्रत्ययो भवति, वोऽन्तश्च भवति, दीर्घस्तु वा । ताम्बूलं, तम्बूलम्-उभयं पूगपत्रचूर्णसंयोगः ।। ४८९ ।।
कुल-पुल-कुसिभ्यः कित् ।। ४६० ॥
एभ्य ऊलः प्रत्ययो भवति, स च किद् भवति । कुल बन्धु-संस्त्यानयोः, कुलूलः कृमिजातिः । पुल महत्त्वे, पुलूल:-वृक्षविशेषः । कुशच् श्लेषे, कुशूल:-कोष्ठः ।। ४९० ॥
दुकूल-कुकूल-बब्बूल-लागृल-शाद लादयः ॥ ४६१ ॥
दुकूलादयः शब्दा ऊलप्रत्यान्ता निपात्यन्ते । दुक्वोः कोऽन्तश्च, दुकूलं-क्षौमं वासः । कुकूलं कारीषोऽग्निः । बर्बोऽन्तो बश्च । बब्बूल:-वृक्षविशेषः । लङ गेर्दीर्घश्च लाङ गूलं वालधिः । शृणातेर्दोऽन्तो वृद्धिश्च, शार्दूल: व्याघ्रः । आदिग्रहणाद् माजूल: कञ्चूलादयो भवन्ति ।। ४९१ ॥
महेरेलः ॥ ४६२॥ मह पूजायाम् , इत्यस्मादेलः प्रत्ययो भवति । महेला स्त्री । ४६२ ॥ कटि-पटि-कण्डि-गण्डि-शकि-कपि-चहिम्य ओलः ॥ ४६३ ॥
एभ्य ओल: प्रत्ययो भवति । कटे वर्षावरणयोः, कटोल:-कटविशेषः, वादित्रविशेषश्च । कटोला औषधिः । पट गतौ, पटोला वल्लीविशेषः । कडु मदे, कण्डोलःविदलभाजनविशेषः । गडु वदनैकदेशे, गण्डोलः कृमि विशेष: । शक्लृट् शक्ती, शकोल:शक्तः, कपिः सौत्रः, कपोल: गण्डः । चह कल्कने, चहोल:-उपद्रवः ।। ४६३ ।।
ग्रह्याद्या कित् ॥ ४६४ ॥
ग्रहेराकारान्तेभ्यश्च धातुभ्यः किदोलः प्रत्ययो भवति । ग्रहीश् उपादाने, गृहोल:बालिशः । कायतेः कोलः-बदरी, वराहश्च । गायतेः गोल:-वृत्ताकृतिः, गोला-गोदावरी, बालरमणकाष्ठं च । पाते: पोला: तालाख्यं कपाटबन्धनं,परिखा च । लातेः लोल:-चपलः । ददातेर्दयतेद्यतेर्वा दोला-प्रेङ्खणम् ॥ ४६४ ॥
पिञ्छोल-कल्लोल-कक्कोल-मकोलादयः ॥ ४६५ ॥
पिञ्छोलादयः शब्दा ओलप्रत्ययान्ता निपात्यन्ते । पीडै: पिञ्छच पिञ्छोल:वादित्रविशेषः । कलेर्लोऽन्तश्च, कल्लोल:-मिः । कचि मच्योः कादिः, कक्कोली लता. विशेषः । मक्कोलः-सुधाविशेषः । आदिग्रहणादन्येऽपि ।। ४९५ ।।
वलि-पुषेः कलक् ।। ४६६ ॥
आभ्यां कित् कलः प्रत्ययो भवति । वलि संवरणे, वल्कलं तरुत्वक । पुष पुष्टा, पुष्कलं, समग्रं युद्धं, शोभनं, हिरण्यं, धान्यं च ।। ४६६ ।।
Loading... Page Navigation 1 ... 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512