________________
सूत्र-४३७-४४१ ]
स्वोपज्ञोणादिगणसूत्रविवरणम्
[ ४०५
आभ्यां कित् करः प्रत्ययो भवति । षूत् प्रेरणे, सूकर:-वराहः । पुष पुष्टौ, पुष्कर, पद्म, तूर्यमूखं, हस्तिहस्ताग्रम् , आकाशं, मुरजः-तीर्थनाम च ॥४३६ ॥
अनि-काभ्यां तरः ॥ ४३७॥
आभ्यां कित् तरः प्रत्ययो भवति । अनक् प्राणने, अन्तरं-बहिर्योगोपसंव्यानयोः, छिद्रमध्यविरहविशेषेषु च । के शब्दे, कातरः-भीरुः ।। ४३७ ।।
इण-पूभ्यां कित् ॥ ४३८ ॥
आभ्यां कित् तरः प्रत्ययो भवति । इण्क् गती, इतरः-निर्दिष्टप्रतियोगी । पूग्श् पवने, पूतर:-जलतन्तुः ॥ ४३८ ॥
मी-ज्यजि-मा-मद्यशौ-वसि किभ्यः सरः ॥ ४३६ ॥
एम्यः सरः प्रत्ययो भवति । मीङच हिंसायाम् , मेसर:-वर्णविशेषः । जि अभिभवे, जेसरः-शूरः । अज क्षेपणे च, वेसरः-अश्वतरः । वेसृ गतौ, इत्यस्य वा जठरेत्यादिनिपातनादरे रूपम् । मांक माने, मासरः-आयामः । मदैच् हर्षे, मत्सरः-क्रोधविशेषः । अशौटि व्याप्ती, अक्षरं वर्णः, मोक्षपदम् , आकाशं च । अक्षर्वा अरे रूपम् । वसं निवासे, वत्सरः, संवत्सरः, परिवत्सरः, अनुवत्सरः, विवत्सरः, उद्वत्सरः-वर्षाभिधानानि । इडामानेन वसन्त्यत्र कालावयवा इति इड्वत्सरः, इडया मानेन वसन्त्यति इडावत्सरः-वर्षविशेषाभिधाने । परिवत्सरादीन्यपि वर्षविशेषाभिधानानीत्येके । कि इत्यदादौ स्मरन्ति केसरःसिंहसटः, पुष्पावयवः, बकुलश्च । बाहुलकान्न षत्वम् ॥ ४३९ ।।
कृ-धू-तन्यषिभ्यः कित् ॥ ४४०॥
एभ्यः कित् सरः प्रत्ययो भवति । डुकृग् करणे, कृसरः कृसरा वा विलेपिकाविशेष: वर्णविशेषश्च । धूत् विधूनने, धूसर:-भिन्नवर्णः, वायुः, धान्यविशेषश्च । तनूयी विस्तारे, तसरः-कौशेयसूत्रम् । ऋषत् गतौ, ऋक्षर:-कण्टकः, ऋत्विक् च, ऋक्षरा-तोयधारा ।४४०।
कग-श-द-वृग-चति-खटि-निषदिभ्यो वरट् ॥ ४४१ ॥
एभ्यष्टिद्वरः प्रत्ययो भवति । कृत् विक्षेपे, कर्बरः-व्याघ्रः, विष्किरः, अञ्जलिश्च, कर्बरी-भूमिः, शिवा च । गृत् निगरणे, गर्वरः-अहंकारः महिषश्च, गर्वरी-महिषी, संख्या च। शृश् हिंसायाम् , शर्वरः-सायाह्नः-रुद्रः, हिंस्रश्च, शर्वरं-तमः, अन्नं च, शर्वरी-रात्रि: । दृश् विदारणे, दर्वरं-वज्रम् , दर्वरी-सेवा । वृगट् वरणे, वर्वर:-कामः, चन्दनं, केशविशेष:-लुब्धकश्च, वर्वरी-नदी, भार्या च । चतेग याचने, चत्वरं-चतुष्पथम् अरण्यं च । चत्वरी-रथ्या, देवता, वेदिश्च । खट काङ क्षे, खट्वरं-रससंकीर्णशाकपाकः । कटे वर्षावरणयोः, कट्वर!-व्यालाश्वः, कट्वरी-दधिविकारः । षद्लु विशरणादौ, निपूर्वः, निषद्वरः कर्दमः-वह्निः, कर्मकरः, कन्दर्पः, इन्द्रश्च । निषद्वरम्-आसनम् ,-निषद्वरी-प्रपा, रात्रिः, प्रमदा इन्द्राणी च ।। ४४१ ।।