SearchBrowseAboutContactDonate
Page Preview
Page 413
Loading...
Download File
Download File
Page Text
________________ ४०४ ] स्वोपज्ञोणादिगणसूत्रविवस्णम् [सूत्र-४३०-४३६ सिन्दूर-कच्चूर-पत्तूर-धुत्तूरादयः ॥ ४३० ॥ एते ऊरप्रत्ययान्ता निपात्यन्ते । स्यन्देः सिन्द् च, सिन्दूरं-चीनपिष्टम् । करोतेश्चोऽन्तश्च, कचूर:-औषधविशेषः । पतेस्तोऽन्तश्च, पत्तूरं-गन्धद्रव्यम् । धुवो द्विरुक्तस्तो. ऽन्तो ह्रस्वश्च, धुत्तूरः-उन्मत्तकः, दधातेर्धत्तूर इत्यन्ये । आदिग्रहणात् कस्तूरहारहूरादयो भवन्ति ।। ४३०॥ कु-गु-पति-कथि-कुथि-कठि-कुठि-कुटि--गडि-गुडि-मुदि--मलि--दंशिभ्यः केरः ॥ ४३१ ॥ . एभ्यः किद् एरः प्रत्ययो भवति । कुंड, शब्दे, कुबेर:-धनद: गुंत् पुरीषोत्सर्गे, गुबेरं-युद्धम् । पत्लु गतौ, पतेर:-पक्षी, पवनश्च । कथण वाक्यप्रबन्धे, कथेर:-कथकः, कुहकः, शकुन्तश्च । कुथच् पूतिभावे, कुथेरः-शिडाकीसंभारः। कठ कृच्छजीवने कठेरःदरिद्रः । कुठिः सौत्रः, कुठेर:-निःसृतसारः, अर्जकश्च । कुटत् कौटिल्ये, कुटेरः-शठः । गड सेचने. गडेर:-मेघः प्रस्रवणशीलश्च । गडत रक्षायाम, गुडेर:-राजा पण्यं च बालभक्ष्यम। मुदि हर्षे, मुदेरः-मूर्खः । मूल प्रतिष्ठायाम् , मूलेर:-वनस्पतिः, मूलेरं-पण्यम् । दंशं दशने, दशेर:-सर्पः, सारमेयः, जनपदश्च ।। ४३१ ।। शतेरादयः ॥ ४३२ ॥ शतेर इत्यादयः शब्दाः केरप्रत्ययान्ता निपात्यन्ते । शद्ल शातने तश्च, शतेर:वायुः, तुषारश्च । आदिग्रहणाद् गुधेर-शृङबेर-नालिकेरादयो भवन्ति ।। ४३२ ॥ कठि-चकि-सहिभ्य ओरः॥ ४३३ ॥ एभ्य ओरः प्रत्ययो भवति । कठ-कृच्छ्रजीवने; कठोर:-अमृदुः, चिरंतनश्च । चकि तृप्तौ च, चकोर:-पक्षिविशेषः पर्वतविशेषश्च । पहि मर्षणे, सहोरः-विष्णुः, पर्वतश्च ॥ ४३३ ॥ कोर-चोर-मोर-किशोर-घोर-होरा-दोरादयः ॥ ४३४ ॥ कोर इत्यादयः शब्दा ओरप्रत्ययान्ता निपात्यन्ते । कायतेश्चरतेम्रियतेश्च डिच्च, कोर:-बालपुष्पम् , चोरः-तस्करः । मोरः-मयूरः । कृशेरिच्चोपान्त्यस्य, किशोर:-तरुणः, बालाश्वश्च । हन्तेडित् घश्च घोरं-कष्टम् । हग हरणे, होरा-निमित्तवादिनां चक्ररेखा । डुदांग्क् दाने, दोच् छेदने वा, दोरः-कटिसूत्र-तन्तुगुणश्च । आदिग्रहणादन्येऽपि । ४३४ ।। कि-श-वृभ्यः करः ॥ ४३५॥ एभ्यः करः प्रत्ययो भवति । किः सौत्रः, केकरः-वकदृष्टिः । शृश् हिंसायाम् , शर्करा-मत्स्यण्डिकादिः, कर्कशः, क्षुद्रापाषाणावयवश्च । वृन्ट् वरणे, वर्कर:-छागशिशुः ॥ ४३५॥ सू-पुषिभ्यां कित् ॥ ४३६ ॥
SR No.032129
Book TitleSiddha Hemchandra Shabdanushasan Bruhad Vrutti Part 02
Original Sutra AuthorN/A
AuthorVajrasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages512
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy