Book Title: Shaktivadadarsha
Author(s): Sudarshanacharya
Publisher: Khemraj Shrikrushnadas Shreshthi Mumbai

View full book text
Previous | Next

Page 16
________________ (८) सादर्श: [ सामान्य अथ शाब्दबोधोपयोगितायामीश्वरीयत्वमनुपादेयमेव. एवं चाधुनिकसंकेतज्ञानादपि शाब्दबोधस्तादृशसंकेतस्य वृत्तित्वं च निर्वहति । 'चाधुनिकसंकेतस्य वृत्तित्वे तात्पर्यस्यापि तथात्वप्रसङ्गः: - तस्यापि बोधकत्वेन पदविषयकतया संकेतरूपत्वात् न चेष्टापत्तिः तथा सति लक्षणास्थलेपि तात्पर्यस्य वृत्तितया लक्षणाया वृत्तित्त्वोच्छेदप्रसङ्गादिति वाच्यम्, यतः पदार्थोंपस्थितिव्यापारकः संकेतो वृत्तिः तात्पर्यज्ञानं च साक्षादेव शाब्दबोधोपयोगिन तु पदार्थोपस्थितिद्वारा-वृत्त्युपस्थापितपदार्थे एव प्रकरणादिना वक्तृतात्पर्यावधारणात् तथा च लक्षणाया वृत्तित्वानुपगमे गङ्गादिपदात् तीरादिपदार्थानुपस्थितौ तत्र तत्तत्पदव्य क्तेस्तात्पर्याग्रहाच्छाब्दबोधानुपपत्तिरिति तस्पा वृत्तित्वमावश्यकम् | न्यायमतेनाशङ्कते - अधेति, शाब्दबोधोपयोगितायाम् = शाब्दबोधकारणतायामिति यावत् ईश्वरीयत्वमनुपादेयम्= ईश्वरनिवेशो न कर्तव्यस्तथा च 'ईश्वरसंकेतः शक्तिः' इति नोच्यते किं तु 'संकेतः शक्तिः' इत्युच्यते संकेतश्चेच्छा एवं चेश्वरानङ्गीकर्तृमते शाब्दबोधानुपपत्तिर्नास्ति-शक्तिस्वरूपे ईश्वरनिवेशाभावादित्यर्थः । ईश्वरीयत्व निवेशपरित्यागे तार्किक उपयोगान्तरमाह - एवं चेति, समान्यतः 'संकेत: शक्ति:' इत्युक्ते आधुनिक संकेतस्य = पाणिन्यादिक्कतनदीवृद्धयादिरूपसंकेतस्थापि वृत्तित्वं निर्वहति तादृशाधुनिकसंकेतज्ञानाच्छन्दबोधश्वापि निर्वहति, वृत्तित्वं च शाब्दबोधजनक पदार्थोपस्थितिरूपव्यापारवत्सम्बन्धत्वं तच्चाधुनिक संकेतेप्यस्त्येवेत्यर्थः । 3 नवाधुनिक संकेतस्य वृत्तित्वे तात्पर्यस्यापि तथात्वप्रसङ्गः - वृत्तित्वं स्यात् यतः 'इदं पदमिममर्थं बोधयतु' इत्येवं रूपेण यद् बोधकत्वेन पदविषयकत्वं तदेव संकेतत्वं तच्च तात्पर्येप्यस्तीति तस्यापि = तात्पर्यस्यापि वृत्तित्वं स्यादेव न चात्रेष्टापत्तिः संभवति तथा सति तात्पर्यस्य वृत्तित्वे हि लक्षणास्थलेपि तात्पर्यस्यैव वृत्तित्वम् = शाब्दबोधजनकपदार्थोंपस्थितिरूपव्यापारवत्संबन्धत्वं स्यादिति लक्षणाया वृत्तियोच्छेदप्रसङ्गः =लक्षणाया वृत्तित्वं न स्यात् तात्पर्यज्ञानादेव गङ्गादिपदात् तीरादिपदार्थोपस्थितिसंभवादित्याशङ्क्याह- न चेति । परिहारमाह-यत इति, पदार्थोपस्थितिरूपव्यापारक एव संकेतो वृत्तिरित्युच्यते पदार्थोंपस्थितिद्वारा शाब्दबोधोपयोगित्वं वृत्तित्वमितिलब्धं तात्पर्यज्ञानं च साक्षादेव शाब्दबोधोपयोगि न तु पदार्थोपस्थितिद्वारा, यतो वृत्त्या पदार्थोपस्थितौ जातायामेत्र तादृशवृत्त्युपस्थापितपदार्थे प्रकरणादिना वक्तृतात्पर्याव• धारणं भवति नतु पदार्थोपस्थितेः पूर्वमपि तथा च तात्पर्यस्य वृत्तित्वप्रसक्तिर्नास्तीत्यर्थः । लक्षणाया वृत्तित्वमुपपादयति तथा चेति, यदि लक्षणाया वृत्तित्वं न स्यात्तदा गङ्गादिपदात् तीरादिपदार्थोपस्थितिरपि न स्यात्तथा च तत्र = तीरादिपदार्थे तत्तत्पदव्यक्तेः गङ्गादिपदस्य तात्पर्यग्रहोपि न स्यात् तथा च शाब्दबोधोपि न स्याद् न चैवमस्ति गङ्गादिपदात् तीरादिवि

Loading...

Page Navigation
1 ... 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 ... 216