________________
(८)
सादर्श:
[ सामान्य
अथ शाब्दबोधोपयोगितायामीश्वरीयत्वमनुपादेयमेव. एवं चाधुनिकसंकेतज्ञानादपि शाब्दबोधस्तादृशसंकेतस्य वृत्तित्वं च निर्वहति ।
'चाधुनिकसंकेतस्य वृत्तित्वे तात्पर्यस्यापि तथात्वप्रसङ्गः: - तस्यापि बोधकत्वेन पदविषयकतया संकेतरूपत्वात् न चेष्टापत्तिः तथा सति लक्षणास्थलेपि तात्पर्यस्य वृत्तितया लक्षणाया वृत्तित्त्वोच्छेदप्रसङ्गादिति वाच्यम्, यतः पदार्थोंपस्थितिव्यापारकः संकेतो वृत्तिः तात्पर्यज्ञानं च साक्षादेव शाब्दबोधोपयोगिन तु पदार्थोपस्थितिद्वारा-वृत्त्युपस्थापितपदार्थे एव प्रकरणादिना वक्तृतात्पर्यावधारणात् तथा च लक्षणाया वृत्तित्वानुपगमे गङ्गादिपदात् तीरादिपदार्थानुपस्थितौ तत्र तत्तत्पदव्य क्तेस्तात्पर्याग्रहाच्छाब्दबोधानुपपत्तिरिति तस्पा वृत्तित्वमावश्यकम् |
न्यायमतेनाशङ्कते - अधेति, शाब्दबोधोपयोगितायाम् = शाब्दबोधकारणतायामिति यावत् ईश्वरीयत्वमनुपादेयम्= ईश्वरनिवेशो न कर्तव्यस्तथा च 'ईश्वरसंकेतः शक्तिः' इति नोच्यते किं तु 'संकेतः शक्तिः' इत्युच्यते संकेतश्चेच्छा एवं चेश्वरानङ्गीकर्तृमते शाब्दबोधानुपपत्तिर्नास्ति-शक्तिस्वरूपे ईश्वरनिवेशाभावादित्यर्थः । ईश्वरीयत्व निवेशपरित्यागे तार्किक उपयोगान्तरमाह - एवं चेति, समान्यतः 'संकेत: शक्ति:' इत्युक्ते आधुनिक संकेतस्य = पाणिन्यादिक्कतनदीवृद्धयादिरूपसंकेतस्थापि वृत्तित्वं निर्वहति तादृशाधुनिकसंकेतज्ञानाच्छन्दबोधश्वापि निर्वहति, वृत्तित्वं च शाब्दबोधजनक पदार्थोपस्थितिरूपव्यापारवत्सम्बन्धत्वं तच्चाधुनिक संकेतेप्यस्त्येवेत्यर्थः ।
3
नवाधुनिक संकेतस्य वृत्तित्वे तात्पर्यस्यापि तथात्वप्रसङ्गः - वृत्तित्वं स्यात् यतः 'इदं पदमिममर्थं बोधयतु' इत्येवं रूपेण यद् बोधकत्वेन पदविषयकत्वं तदेव संकेतत्वं तच्च तात्पर्येप्यस्तीति तस्यापि = तात्पर्यस्यापि वृत्तित्वं स्यादेव न चात्रेष्टापत्तिः संभवति तथा सति तात्पर्यस्य वृत्तित्वे हि लक्षणास्थलेपि तात्पर्यस्यैव वृत्तित्वम् = शाब्दबोधजनकपदार्थोंपस्थितिरूपव्यापारवत्संबन्धत्वं स्यादिति लक्षणाया वृत्तियोच्छेदप्रसङ्गः =लक्षणाया वृत्तित्वं न स्यात् तात्पर्यज्ञानादेव गङ्गादिपदात् तीरादिपदार्थोपस्थितिसंभवादित्याशङ्क्याह- न चेति । परिहारमाह-यत इति, पदार्थोपस्थितिरूपव्यापारक एव संकेतो वृत्तिरित्युच्यते पदार्थोंपस्थितिद्वारा शाब्दबोधोपयोगित्वं वृत्तित्वमितिलब्धं तात्पर्यज्ञानं च साक्षादेव शाब्दबोधोपयोगि न तु पदार्थोपस्थितिद्वारा, यतो वृत्त्या पदार्थोपस्थितौ जातायामेत्र तादृशवृत्त्युपस्थापितपदार्थे प्रकरणादिना वक्तृतात्पर्याव• धारणं भवति नतु पदार्थोपस्थितेः पूर्वमपि तथा च तात्पर्यस्य वृत्तित्वप्रसक्तिर्नास्तीत्यर्थः । लक्षणाया वृत्तित्वमुपपादयति तथा चेति, यदि लक्षणाया वृत्तित्वं न स्यात्तदा गङ्गादिपदात् तीरादिपदार्थोपस्थितिरपि न स्यात्तथा च तत्र = तीरादिपदार्थे तत्तत्पदव्यक्तेः गङ्गादिपदस्य तात्पर्यग्रहोपि न स्यात् तथा च शाब्दबोधोपि न स्याद् न चैवमस्ति गङ्गादिपदात् तीरादिवि