________________
(९)
काण्डम् ]
शक्तिवादः। न च तात्पर्यग्रहार्थ लक्षणाधीनोपस्थितेरपेक्षितत्वेपि तदधीनोपस्थितित्वेन शाब्दबोधहेतुत्वे मानाभावात् तस्या वृत्तित्वाऽसिद्धिः-लक्षणास्थले तात्पर्यात्मकसंके. ताधीनोपस्थितित एव शाब्दबोधनिर्वाहाद् आधुनिकसंकेतस्थले तात्पर्याधीनोप. स्थितेः शाब्दबोधप्रयोजकतायाः क्लप्तत्वादिति वाच्यम्, लक्षणाधीनपदार्थोपस्थितिसत्त्वे मुख्यार्थबाधादिना तत्तदर्थे तत्तत्पदव्यक्तेस्तात्पर्यग्रहे (जाते) उपस्थित्यन्तरमन्तरेणैव तत्तदर्थानुभवस्य सर्वानुभवसिद्धत्वात् । आधुनिकसंकेतस्थले च पूर्व संकेतकर्तृपुरुषवाक्यतोऽर्थविशेषे डित्थादिपदस्य संकेतग्रहात् तत्तत्पदेनाऽर्थविशेषोपस्थितौ (जातायाम् ) प्रकरणादिना तत्तत्पदव्यक्तेस्तत्र तात्पर्यग्रहे सति शाब्दबोधस्य वृत्त्यन्तराधीनोपस्थितिमन्तरेणैवोत्पत्त्या आधुनिकसंकेतस्य वृत्तित्त्वमितिचेत् ?
षयकशाब्दबोधस्य सर्वप्रसिद्धत्वात् तस्मात् तस्याः लक्षणाया वृत्तित्वमावश्यक लक्षणाया वृत्तित्वे च लक्षणया गङ्गादिपदात तीरादिपदार्थे उपस्थिते तत्र गङ्गादिपदस्य वक्तृतात्पर्ये गृहीते तीरादिविषयकशाब्दबोधः संभवतीत्यर्थः ।
ननु यथाऽऽधुनिकसंकेतस्थले तात्पर्याधीनोपस्थितेः प्रयोजकत्वमस्ति तथा लक्षणास्थलेपि तात्पर्यात्मकसंकेतज्ञानाधीनोपस्थितितः शाब्दबोधनिर्वाहः संभवतीति तात्पर्यग्रहार्थं लक्षणाधीनोपस्थितेरपेक्षितत्वेपि तदधीनोपस्थितित्येन लक्षणाधीनोपस्थितित्वेन रूपेण शाब्दबोधं प्रति हेतुत्वे मानाभावात् तस्याः लक्षणाया वृत्तित्वानुपपत्तिस्तदवस्थैवेत्यभिप्रायेणाशङ्कते- न चेति । यज्ञानाधीनोपस्थितेः शाब्दबोधं प्रति हेतुत्वं तस्यैव वृत्तित्वमभिमतं लक्षणास्थले च लक्षणाज्ञानाधीनोपस्थितेस्तात्पर्यप्रहं प्रत्येव हेतुत्वं न शाब्दबोधं प्रति, शाब्दबोधं प्रति तु तात्पर्यज्ञाना. धीनोपस्थितेरेव हेतुत्वमिति तात्पर्यस्य वृत्तित्वं वक्तव्यं न लक्षणाया इत्यर्थः । आधुनिकसंकेतस्थलेपि तात्पर्यज्ञानाधीनोपस्थितेः शाब्दबोधं प्रति हेतुत्वं नास्ति यदृष्टान्तेन लक्षणास्थल तात्पर्यज्ञानाधीनोपस्थितेः शाब्दबोधं प्रति हेतुत्वं स्यात् तेन च लक्षणाया वृत्तित्वोच्छेदः स्यादित्यभिप्रायेण परिहरति-लक्षणाधीनपार्थोपस्थितिसत्त्वे इति, गङ्गादिपदाद् मुख्यार्थबाधा. दिना लक्षणाधीनतीरादिपदार्थोपस्थितिसत्त्व तत्तदर्थे-तीरादिपदार्थे तत्तत्पदव्यक्तेः गङ्गादिपदस्य तात्पर्यग्रहे जाते पुनस्तीरादिविषयकोपस्थितेरपेक्षा न भवतीत्युपस्थित्यन्तरमन्तरेणैव तत्तदर्थानु'भवः=तीरादिविषयकशाब्दबोधः सर्वानुभवसिद्धोस्तीति, लक्षणाज्ञानाधीनपदार्थोपस्थितेः शाब्दबोधं प्रति हेतुत्वात् लक्षणाया वृत्तित्वं सिद्ध तात्पर्यज्ञानाधीना तूपस्थितिरेव न जायते यस्याः शाब्दबोधं प्रति हेतुत्वं स्यात् तेन च तात्पर्यस्य वृत्तित्वं स्यादित्यर्थः । आधुनिकसं तस्थलेपि पूर्व संकेतकर्तृपुरुषस्य 'डित्यपदादयं पिण्डो बोद्धव्यः' इत्याकारकवाक्यतोऽर्थविशेषे खित्यादिपदार्थे डित्यादिपदस्य संकेतग्रहो भवति तेन च संकेतज्ञानेन डित्यादिपदाद् डित्यादिपदार्थः