________________
सादर्श:
[सामान्यएवमपि संकेतस्य शब्दसम्बन्धत्वे मानाभावेन निष्प्रतियोगिकतया तदसंभवेन व पदार्थोपस्थापकत्वासंभवेन वृत्तित्वानिर्वाहात् ।
स्योपस्थितिर्भवति प्रकरणादिना तत्तत्पदव्यक्तः=डित्यादिपदस्य तत्र=डित्यादौ तात्पर्यग्रहे सति जाते वृत्त्यन्तराधीनोपस्थिति बिनैव शाब्दबोधो जायते इति तत्राधुनिकसंकेतज्ञानाधीनोपस्थि तेरेव शाब्दबोधं प्रति हेतुत्वादाधुनिकसंकेतस्य वृत्तित्वं सिद्धं तार्यज्ञानाधीना तूपस्थितिरेव न भवति यस्याः शाब्दबोधं प्रति कारणत्वं तेन च तात्पर्यस्य वृत्तित्वं स्यादित्याहभाधुनिकसंकेतस्थलेइति । आधुनिकसंकेतविषयनदीदित्यादिपदानामनेकार्थत्वात् तत्तात्पर्यग्रह प्रति प्रकरणादेहेतुत्वादुक्तम्-"प्रकरणादिना” इति ।
लक्षणास्थले हि प्रथमं गङ्गादिपदाच्छक्त्या मुख्यार्थप्रवाहाद्युपस्थितिर्भवति तादृशमुख्यार्थे घोषाद्याधारस्वादिबाधज्ञाने जाते "एकसंबन्धिज्ञानमपरसम्बन्धिस्मारकम्" इतिरीत्या प्रवाहादिज्ञानेन तीराद्युपस्थितिर्भवति तदनन्तरं तीरादिविषयकशाब्दबोधो भवतीतिक्रमः, अत्र च यद्यपि प्रवाहादिमुख्यार्थज्ञानेन तीरोपस्थितिर्भवतीति लक्षणाया मुख्यार्थवृत्तित्वं वक्तव्यं न पदवृत्तित्व गङ्गादिपदेन तीरोपस्थितेरसंभवाद् मुख्यार्थोपस्थापनानन्तरं लक्ष्यार्थोपस्थापकत्वासंभवात् शब्दबुद्धिकर्मणां विरम्य व्यापाराभावाद् मुख्यार्थोपस्थितेश्वावश्यकत्वात् तथापि "शाब्दी ह्याकाङ्क्षा शब्देनैव प्रपूर्यते" इतिनियमाद् मुख्यार्थवृत्तिलक्षणाया अपि पदे आरोपो भवति अन्यथा लक्ष्यार्थबोधस्य मुख्यार्थप्रवाहसंबन्धज्ञानाधीनोपस्थित्या जायमानत्वेन लक्षणावृत्त्या पदज्ञानजन्योपस्थित्या चाऽजायमानत्वेन शाब्दबोधत्वं न स्यात् । पदजन्यपदार्थोपस्थितिजन्यबोधस्यैव शाब्दबोधत्वस्वीकारादित्यवधेयम् ।
अथेत्यादिनाशङ्कितं परिहरति-एवमपीति, शाब्दबोधोपयोगितायामीश्वरीयत्वानुपादानेनेश्व. रानङ्गीकर्तृमते शाब्दबोधसंभवेपीत्यर्थः । यदि संकेतस्य शब्दसम्बंधत्वं स्यात् तदा संकेतस्य ज्ञातस्य पदार्थोपस्थापकरवं स्यात् तदा च वृत्तित्वमपि स्याद् न च संकेतस्य शब्दसम्बन्ध माममस्ति-यतः 'अयमस्य पिता अयमस्य पुत्रः' इत्येवं यत्र प्रतीतिर्भवति तत्रैव जन्यजनकमा वादेः संबन्धत्वं भवति, अत्र च "अर्थवत् पदम्' इतिप्रतीतिसत्त्वेपि ‘पदवानर्थः' इतिप्रतीत्यमा वान्न संकेतस्य पदपदार्थसम्बधत्वं संभवति, संबन्धत्वाभावाच्च पदार्थोपस्थापकत्वाभावः प्राप्त पदार्थानुपस्थापकस्य च दृत्तित्वं नेष्टमित्यर्थः । ननु यथा 'भूतलवान् घटः' इतिप्रतीत्यभाये 'घटवद् भूतलम्' इतिप्रतीतिमात्रेण घटभूतलयोः संयोगस्य संबन्धत्वं भवति तथा 'पदवानर्थः इतिप्रतीत्यभावेपि 'अर्थवत् पदम्' इतिप्रतीतिमात्रेण संकेतस्य पदपदार्थसम्बन्धत्यं किं न स्यादि त्याशङ्कयाह-निप्रतियोगिकतयेति, निरूपकाशे नित्यसाकाङ्क्षस्वाभावादित्यर्थः। संयोगस्तु प्रति योग्यंशे (मिपकाशे ) नित्यसाकाङ्क्ष एव यतः संयोग इत्युक्तो सात जिज्ञासा कस्येति, संकेत स्त्विच्छैव इच्छा च प्रतियोग्यशे नित्यसाकाङ्क्षा न संमवतीति निष्प्रतियोगिकतया संकेतस्या